SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ चत्वारोऽशास्तावदायुमंतेऽस्मिन् सुमतेः स्मृतम् ॥ ३५॥ सर्वेऽप्यन्ये पश्चमेऽशे, द्वादशानां च जीवितम् । असंख्ययानि पूर्वाणि, नाभेः संख्येयकानि च ॥३६॥ पञ्चानां प्रथमा नीतिः, प्रथमानां प्रकीर्तिता। द्वितीयानां द्वितीया स्यात्तृतीयानां तृतीयिका ॥ ३७॥ नाभेः कुलकरस्याथ, मरुदेवामृगीदृशः । भूमौ भावी विनीतायां, पुत्रत्वेनादिमो जिनः ॥ ३८॥ वर्तमानावसर्पिण्याः, संवन्धिनि तृतीयके । अरे नवाशी-18 तिपक्षत्रुटिताङ्गावशेषके ॥ ३९॥ शुचिश्यामलतुर्यायाम् ( आषाढशुक्लषष्ट्यां ) स, आगात्सर्वार्थसिद्धितः। स्थिति समाप्य तत्रयां, त्रयस्त्रिंशत्पयोधिकाम् ॥४०॥ त्रयोदशे भवे सोऽस्मात्सार्थवाहो धनाभिधः। आसीत्ससार्थः सोऽचालीद्वसन्तपुरमन्यदा ॥ ४१ ॥ वर्षाकाले पथि प्राप्ते, कान्तारे तस्थिवानसौ । सहागतान्मुनीस्तत्र, सस्मार शरदागमे ॥ ४२ ॥ अन्ये जीवन्ति कन्दायै नयस्तु कथं हहा !। ततः प्रगे| तानाकार्य, स घृतैः प्रत्यलम्भयत् ॥ ४३ ॥ तत्र च प्राप सम्यक्त्वं, मृत्वा कालान्तरेऽथ सः। बभूवोत्तरकुरुषु,।। युग्मी मृत्वा ततोऽपि च ॥ ४४ ॥ सौधर्म त्रिदशोऽथाभूद्विदेहेषु महाबलः । ईशाने ललिताङ्गोऽथ, वज्रजङ्घो|| १० हामहीपतिः ॥ ४५ ॥ विदेहेष्वभवत्सोऽथ, युग्म्युत्तरकुरुष्वथ । सौधर्मे त्रिदशोऽथाभूद्धिदेहेषु चिकित्सक 181॥ ४२ ॥ श्रेष्ठिभूपामात्यसार्थवाहपुत्रैः सुहृद्वरैः । संयुक्तः स पटूचक्रे, कृमिकुष्ठादितं मुनिम् ॥४७॥ लक्ष-11 ददा तत्र, तैलं वैद्यसुतः खयम् । गोशीर्षचन्दनं लक्षमूल्यं च रत्नकम्बलम् ॥४८॥ वणिग् ददौ विना १ पञ्चदशानां विशेषकालापेक्षया कुलकरत्वं, एतदवसर्पिण्यपेक्षया सप्तानामित्यपि नासुन्दरं । in Education International For Private Personal Use Only www.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy