SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे च । पञ्चविंशाः ७ क्रमादेषां, देहमाने धनुःशताः ॥ २५ ॥ दशभागीकृतस्यैषामायुषः प्रथमोऽशकः। कुमार- कुलकरव३२ सर्गे वेऽन्तिमश्चांशो, वार्द्ध के परिकीर्तितः ॥ २६ ॥ अष्टासु मध्यमांशेषु, कुलकृत्पदगौरवः । सप्तानामप्यमीषां। क्तव्यता स्युरेकैको वाहनं गजः ॥ २७ ॥ हस्तिनां च भवत्यायुनिजैः कुलकरैः समम् । द्वौ सुपर्णकुमारेपूत्पन्नौ कुलकरौ । ॥४८८॥ क्रमात् ॥ २८ ॥ अथोदधिद्वीपकुमारेषु द्वौ द्वौ यथाक्रमम् । नाभिर्नागकुमारेषु, तथा षण्णां प्रिया अपि ॥२९॥ निर्वृता मरुदेवा तु, सप्तापि करिणोऽभवन् । नागदेवा मतेऽन्येषां, केषांचित्त्वाद्य एव सः ॥३०॥ तथोक्तं श्रीज्ञानसागरसूरिकृतावश्यकावचूर्णो-"हस्तिनः सप्तापि षट् च स्त्रियो नागकुमारेषु भवन्त्युत्पन्नाः, अन्ये व्याचक्षते-हस्ती एक एव षट् स्त्रियो नागेषु, शेषैर्नाधिकार इति" ॥ आवश्यकाभिप्रायोऽयं, षष्टोपाङ्गे तु | 18 तात्विकैः। उक्ताः कुलकराः पञ्चदश तेऽमी यथाक्रमम् ॥ ३१॥ सुमतिश्च १ प्रतिश्रुति २र्भवेत्सीमङ्कर: पर:३। सीमन्धरः ४ क्षेमङ्करः ५, क्षेमन्धर ६ स्ततः परम् ॥ ३२॥ विमलवाहन ७ श्चक्षुष्मान् ८ यशव्य ९ भिच-18 न्द्रकः १०। चन्द्राभः ११ प्रसेनजिच्च १२, मरुदेव १३ स्तथा परः॥ ३३ ॥ नाभिः १४ श्रीऋषभस्वामिप्रभोस्तत्त्वाविवक्षया। उक्ताः कुलकराः पद्मचरित्रे तु चतुर्दश ॥ ३४॥ पल्योपमाष्टमांशस्य, पञ्चभागीकृतस्य ये। ॥४८ ॥ १ श्रीऋषभप्रभोः काले आदौ कल्पवृक्षसद्भावात् कुलकरत्वं पश्चाद् राज्याभिषेके च न कुलकरत्वं ततश्चतुर्दश, तेष्वपि क्षेमन्धरान्ता विमलमतित्वेनाधिका अपि न नीतेः कारका इति न कुलकरत्वेन विवक्षिताः, चन्द्राभस्तु न स्वयं तथेति ध्येयं, समाहितं चान्ययाऽप्यपेक्ष्या विशेषणवत्यां । JainEducation P ional 10 For Private Personal Use Only Bhainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy