SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 19॥१३॥ विदेहे पश्चिमेऽभूतां, सुहृदो वणिजावुभौ । एकोऽभूत्तत्र मायावी, द्वितीयः सरलाशयः ॥ १४ ॥18 तयोर्मृत्वाऽथ मायावी, क्षेत्रेऽस्मिन् कुञ्जरोऽभवत् । उज्वलो भद्रजातीयो, युग्मी कुलकरः परः॥ १५ ॥ गजो-ISI सौ प्राग्भवस्नेहादु, दृष्ट्वा तं युग्मिपुङ्गवम् । स्कन्धमारोपयामास, सुरेन्द्र हस्तिमल्लवत् ॥ १६॥ ततश्चैतस्य विमलवाहनेत्यभिधाऽभवत् । परेषु युग्मिषु प्राप, गौरवं तेन सोऽधिकम् ॥ १७॥ प्रागभूवन दशविधाः, कल्पधृक्षास्ततः पुनः। तेऽवाशिष्यन्त विमलवाहने सति सप्तधा ॥ १८॥ तथोक्तं स्थानाङ्गे सप्तमे स्थाने-"विमलवाहणे णं कुलगरे सत्तविहा रुक्खा उवभोगत्ताए हवमागञ्छिसु, तं०-मत्तंगया य१भिंगा २ चित्तंगा ३ चेव होंति चित्तरसा ४ ।मणियंगा य ५ अणियणा ६ सत्तमगा कप्परुक्खा य ॥१॥ 'कप्परुक्ख'त्ति उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना कल्पस्तत्प्रधाना वृक्षाः कल्पवृक्षाः॥ कालेन हीयमानेन, कल्पद्रुपरिहाणितः। युग्मिनां कलहे लोभादन्योऽन्यं नीतिविप्लवे ॥१९॥ हाकाराख्यां दण्डनीति, चक्रे विमलवाहनः। कशयेव तुतोदावं, तया नीत्याऽपमार्गगम् ॥२०॥ युग्मम् । सलज्जास्तेऽपि तेनैव, दण्डेन हीवशंवदाः । कदापि न पुनर्नीतिमतिकामन्ति भद्रकाः ॥२१॥ द्वयोः कुलकृतोरेषा, कालेनास्या व्यतिक्रमे ।। माकाराख्या बभूवान्या, सा तृतीयचतुर्थयोः ॥ २२ ॥ आद्या स्वल्पापराधानां, द्वितीया प्रचुरागसाम् । पञ्चमादित्रये त्वन्या, धिक्काराहा बभूव सा ॥ २३ ॥ अल्पागसां भवत्याद्या, द्वितीया मध्यमागसाम् । अत्यु-18 स्कृष्टापराधानां, दण्डनीतिस्तृतीयिका ॥ २४ ॥ नवा १ टौ २ सप्त ३ सार्दाः षट् ४ षट् ५ सार्दाः पञ्च ६ पञ्च OM D Jan Educat i on For Private Personal use only jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy