________________
लोकप्रकाशे ३२ सर्गे
॥४८७॥
॥ अथ द्वात्रिंशत्तमः सर्गः प्रारभ्यते॥
कुलकरव
क्तव्यता | अथास्यामवसर्पिण्यां, क्षेत्रेवारे तृतीयके । अन्तिमस्यैव पल्यस्याष्टमे भागे किलान्तिमे ॥१॥ सप्ताभू-18 वन् कुलकरा, आद्यो विमलवाहनः। चक्षुष्मांश्च यशस्वी चाभिचन्द्रश्च प्रसेनजित् ॥२॥ मरुदेवश्च नाभिश्च, क्रमादेषामिमाः प्रियाः। चन्द्रयशाश्चन्द्रकान्ता, सुरूपा प्रतिरूपिका ॥ ३॥ चक्षुःकान्ता च श्रीकान्ता, मरुदेवा खभर्तृवत् । एतासामायुरुचत्वादिकं तदिह वक्ष्यते ॥ ४॥ स्त्रियः ससापि चक्षुष्मान् , यशस्वी च प्रसेनजित् । प्रियङ्गुवर्णा गौरोऽभिचन्द्रोऽन्ये काञ्चनत्विषः ॥५॥ आद्यसंहननाः सर्वे, आद्यसंस्थानशालिनः। १५ याम्यस्य भरताद्धेस्य, मध्ये खण्डेऽभवन्नमी ॥ ६॥ पल्यस्य दशमो भाग, आयुराद्यस्य कीर्तितम् । ततः पूर्वाण्यसंख्यानि, न्यूनन्यूनान्यनुक्रमात् ॥७॥ आयुर्भवति पञ्चानां, स्यान्नाभेः सप्तमस्य तत् । संख्येयान्येव पूर्वाणि, तत्पल्या अपि तादृशम् ॥ ८॥ असंख्यपूर्वायुष्कत्वे, त्वस्य पल्याः कथं भवेत् । निवृतिमरुदेवाया, निजभर्तृसमायुषः॥९॥अयं भावः-पल्योपमस्य कल्प्यन्ते, चत्वारिंशल्लवा यदि । तदा तदष्टमोऽशः स्याद्यावान् पञ्चलवात्मकः ॥१०॥तावानभूत्कुलकरकालः सर्वात्मनाऽपि हि । तत्र पल्यस्य दशमो, भाग आद्यस्य जीवितम् ॥ ११॥ पल्यस्य दशमांशेन, चत्वारिंशद्विभाजिताः। पूर्वोदिताः स्युश्चत्वारो, भागाः कुलकृदा
॥४८७॥ युषि ॥१२॥ आये कुलकरे पूर्णायुषि पल्योपमस्य तत् । अंशश्चत्वारिंशदेकः, शिष्यतेऽस्मिन् परेऽखिलाः २२
Jain Education nal
TOT
For Private Personel Use Only
Mainelibrary.org