SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ॥३७८॥ लोकप्रकाशे प्रमाणमित्युक्तं, पूर्वाचार्यप्रदर्शितम् । अथ स्वरूपं मानं च, तुलायाः किञ्चिदुच्यते ॥ ५८ ॥ पञ्चत्रिंशल्लोहपलकालनिरू मयी वृत्ता घना भृशम् । द्वासप्ततिं चाङ्गुलानि दीर्घा लोहतुला भवेत् ॥ ५९ ॥ तस्याः पञ्चपलमितं, धरणं पणे रचयेदुधः । येन धृत्वा तोल्यते तद्धरणं परिकीर्त्तितम् ॥ ६० ॥ तस्यां चाथ धरणके, योजिते सति सा तुला । धियमाणा यत्र देशे, समा स्यात्पार्श्वयोर्द्वयोः ॥ ६१ ॥ तत्र प्रदेशे समताज्ञानाय परिकल्पयेत् । रेखामेकां ततश्चान्यां, रेखाणां पंचविंशतिम् ॥ ६२ ॥ तत्र स्यात्प्रथमा रेखा, कर्षार्द्धस्यैव सूचिका । द्वितीयैकस्य कर्षस्य, तृतीया कर्षयोर्द्वयोः ॥ ६३ ॥ त्रिकर्षसूचिका तुर्या, स्याच्चतुः कर्षसूचिका । पञ्चम्यथ नव रेखाः, स्युरेकै| कपलाधिकाः ॥ ६४ ॥ यथा तत्र भवेद्रेखा, षष्ठी द्विपलसूचिका । एवं यावद्दशपलसूचिका स्याच्चतुर्दशी ॥ ६५ ॥ ततश्च द्वादशपलसूचिका पञ्चदश्यसौ । षोडशी च पञ्चदशपलाभिव्यञ्जिका स्मृता ॥ ६६ ॥ ततः सप्तदशी रेखा, पलविंशतिसूचिका । अत ऊर्द्ध च दशकवृद्धा अष्टाप्यभूः स्मृताः ॥ ६७ ॥ अष्टादशी यथा रेखा, | स्यात्रिंशत्पल सूचिका । क्रमादेवं शतपलसूचिका कीर्त्तिताऽन्तिमा ॥ ६८ ॥ पञ्चपञ्चदशत्रिंशत्पञ्चाशत्पलसूचिका । नवमी षोडशी चाष्टादशी च पञ्चविंशिका ॥ ६९ ॥ एताश्चतस्रो रेखाः स्युः, फुल्लफुल्लडिकायुताः । स्युः शेषा ऋजवः सर्वा, एकविंशतिसंमिताः ॥ ७० ॥ तुलाखरूपमित्येवं यथागममुदीरितम् । प्रमाणमथ मेयस्य, यथाऽऽगममुदीर्यते ॥ ७१ ॥ देशेषु मगधाख्येषु, प्रसिद्धं कुडवाभिधम् । मानं स्यात्तौल्यचिन्तायां, सकर्षार्द्ध पलत्रयम् ॥ ७२ ॥ चतुर्भिः कुडवैरेकः, प्रस्थो मागधिको भवेत् । सार्द्धानि द्वादश पलान्येष तौल्यप्रमाणतः Jain Education tional For Private & Personal Use Only घटिकादिकाले तौल्यमेयमानं २० २५ ॥३७८॥ २८ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy