________________
लोकप्रकाशे ३१ सर्गे चक्रिस्वरूपं
1182811
धापूर्णत्रैलोक्या गजगामिनः ॥ ६९ ॥ श्यामलद्युतयस्तत्र, वासुदेवा महौजसः । पीतकौशेयव सना, नरसिंहाः स्फुरद्रुचः ॥७०॥ रत्नेन कौस्तुभाख्येन, सदाऽलङ्कृतवक्षसः । उदात्तसत्त्वाः संग्रामसोत्साहा गरुडध्वजाः ॥ ७१ ॥ अष्टभिः कुलकम् । तथोक्तं - " जुद्धसुरा वासुदेवा” ॥ पाञ्चजन्याभिधः शङ्खः १, स्याच्चक्रं च सुदर्शनम् २ । गदा कौमोदकी ३ चापं, शार्ङ्ग ४ खङ्गस्तु नन्दकः ५ ॥ ७२ ॥ मणिश्च ६ वनमाला ७ च सप्तरत्नी भवेदियम् । उत्कृष्टा वासुदेवानां सदा देवैरधिष्ठिता ॥ ७३ ॥ युग्मम् । तत्राशक्यो वादयितुं शङ्खोऽन्येन हरिं विना । श्रुत्वैवास्य ध्वनिं दृप्तं, वैरिसैन्यं पलायते ॥ ७४ ॥ दण्डरत्नवदुत्कृष्टप्रभावाढ्या परेण च । दुर्वहा स्वाद्गदा हप्यद्वैरिदोर्मदखण्डिनी ॥ ७५ ॥ दुराकर्षे धनुः शार्ङ्गमन्येनाद्भुतशक्तिकम् । पलायते शत्रुसैन्यं, यस्य टङ्कारवादपि (नादतः ) ॥७६॥ श्रूयते धातकीखण्डं, गते चरमशार्ङ्गिणि । द्रौपदीहारिणः सैन्ये, पद्मोत्तरमहीपतेः ॥७७॥ पाञ्चजन्यस्य शब्देन, तृतीयोऽशः पलायितः । शेषो नष्टस्तृतीयोऽंशो, धनुष्टङ्कारयेण च ॥७८॥ युग्मम् । वनमालाभिधा च स्रक्, सदा हृदयवर्त्तिनी । अम्लाना सततं सर्वर्त्तुकपुष्पाऽतिसौरभा ॥७९॥ चक्रादीनां च रत्नानां, वर्णनं प्राग् निरूपितम् । यथासंभवमत्रापि, योजनीयं मनीषिभिः ॥ ८० ॥ प्रश्नव्याकरणसूत्रे तु वासुदेववर्णने शक्तिः शस्त्रं दृश्यते, मणिश्चात्र न दृश्यते, तथा च तद्ग्रथः - 'सङ्खचक्कगयसत्तिणंदगधरा इति, शक्तिश्च त्रिशूलविशेष इति तद्वृत्तौ । भवन्ति बलदेवास्तु, गौराङ्गा नीलवाससः । योषिदू कार्मणी भूतरूपास्तालध्वजान्विताः ॥ ८१ ॥ एषां | स्युस्त्रीणि रत्नानि, सेवितानि सुरैः सदा । धनुः परैरनाकर्ण्य, मुशलं च हलं वरम् ॥ ८२ ॥ त्रीण्यप्यमूनि
Jain Educationational
For Private & Personal Use Only
विष्णोर्नदेवस्य च स्वरूपं
॥ ४८४ ॥
*
२५ २६
jainelibrary.org