________________
विषतां, पटूनि मदभेदने । दुर्लभानि सुराणामप्यमोघानि च सर्वदा ॥ ८३ ॥ उक्तानि चैतानि रामचरित्रेऽनङ्गलवणमदनाङ्कुशसंग्रामे पद्मस्य बलदेवस्य, तथाहि-पद्मनाभोऽप्यभाषिष्ट, ममापि शिथिलायते । धनुः श्वभ्रे स्थितमिव, वज्रावर्त न कार्यकृत् ॥ ८४ ॥ अभून्मुशलरत्नं च, वैरिनिर्दलनक्षमम् । कणखण्डनमात्राहमेवैतदपि संप्रति ॥ ८५ ॥ अनङ्कुशेऽङ्कुशीभूतं, यहुष्टनृपदन्तिनाम् । हलरत्नं तदप्येतदभूभूपाटनोचितम् ॥ ८६ ॥ सदा यक्ष रक्षितानां, विपक्षक्षयकारिणाम् । तेषामेव ममास्त्राणामवस्था त्वियमागता|
॥ ८७ ॥” इत्यादि । स्युः षोडश सहस्राणि, विष्णूनां प्राणवल्लभाः । जगदुत्तरसौभाग्यशालिन्यः खर्वधूसमाः 18॥८८॥ तथोक्तं दशमाङ्गे--'सोलसदेवीसहस्सवरनयणहिययदइया' इति, अन्तकृत्सूत्रस्याप्यादौ कृष्ण
वर्णने 'रुप्पिणीपामोक्खाणं सोलसण्हं देवीसहस्साणं” इति, केचिद्वासुदेवानामर्द्धचक्रित्वेन द्वात्रिंशत्सहस्राणि । प्रेयसीनामाहुः, तथोक्तं षष्ठाङ्गे पञ्चमाध्ययने-रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं' इति 'ज्ञेयं ।।। सीरिणां तु प्रियासङ्ख्यानयत्यं नोपलभ्यते। ज्ञेयो दिग्विजयोऽमीषां, कथश्चिच्चक्रवर्तिवत् ॥८९॥ षोडशाशेषसैन्यायाः, पार्थिवानां सहस्रकाः। आकर्षन्त्यन्धुकण्ठस्थं, बद्धं शृङलया हरिम् ॥९॥ नौष्ठोपपीडं खं स्थाम, प्रयुञ्जाना अपीशते। पदाचालयितुं ते तं, महीधरमिव द्विपाः॥९॥ युग्मम् । स तु तान् शृङ्खलाप्रान्तवि
१ मुख्यानां राज्ञां षोडश सहस्राः कन्याः अन्याश्च षोडश इति न द्वयोर्विरोधः, यतः अन्तकृति सूत्रे देवीसहस्साणमिति षष्ठाने च महिलासहस्साणमिति स्पष्टो विभागः ।
JainEducationi
For Private
Personel Use Only
M
ainelibrary.org