SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ भुजाम् । आवासास्ते महीनां, सदा स्युर्जाहवीमुखे ॥ ३४ ॥ चक्रवर्तिनि चोत्पन्ने, तद्भाग्येन वशीकृताः । वर्ष जित्वा वलमानं, गृहान् प्रत्यनुयान्ति तम् ॥ ३५ ॥ तथोक्तमृषभचरित्रे-"इत्यूचुस्ते वयं गङ्गामुखमाग-1 धवासिनः । आगतास्त्वां महाभाग, त्वद्भाग्येन वशीकृताः ॥ ३६॥" पातालमार्गेणायान्ति, तिष्ठन्ति च । पुराहहिः। तेषां नगरतुल्यानां, पुर्यामनवकाशतः ॥ ३७ ॥ एवं सेनाश्चतस्रोऽपि, पत्यश्वेभरथात्मिकाः। पुर्या न प्रविशन्त्यन्तरवकाशविवर्जिताः ॥ ३८॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिसूत्रे-‘णवरि णव महाणिहीओ -18|५ तारि सेणाउ (ग)पविसंती"त्यादि, लोके तु-महापद्मश्च १ पद्मश्च २, शङ्खो ३ मकर ४ कच्छपौ ५ । मुकुन्द ६-18 कुन्दौ ७ नीलश्च ८, चर्चश्व ९ निधयो नव ॥१॥ चतुर्दश सहस्राणि, यक्षा रत्नाधिदेवताः । द्वे सहस्रे चाङ्गरक्षाः, सहस्राः षोडशेति ते ॥ ३९॥ एकातपत्रं षट्खण्डराज्यं नगरनीवृताम् । मौलिभृद्भपतीनां च, स्यु त्रिंशत्सहस्रकाः॥४०॥ गजानां च रथानां च, निःखानानां च वाजिनाम् । स्युः प्रत्येकेन चतुरशीतिः शतसहस्रकाः ॥ ४१ ॥ ऋतुकल्याणिकानां स्युः, पुरन्ध्रीणां सहस्रकाः । द्वात्रिंशतश्च सुस्पर्शाः, सर्वर्तुषु सुखा-181 वहाः ॥ ४२ ॥ देशाधिपानां कन्या या, उदूढाश्चक्रवर्तिना । तासामपि सहस्राणि, द्वात्रिंशत्खर्वधूश्रियाम् ॥ ४३ ॥ पुरन्ध्रीणां भवन्त्येवं, चतुष्षष्टिः सहस्रकाः। भवन्ति द्विगुणास्ताभ्यः, सुरूपा वारयोषितः ॥४४॥ एकं लक्षं द्विनवतिसहस्राभ्यधिकं ततः। अन्तःपुरीणां निर्दिष्टं, भोगार्थ चक्रवर्तिनः ॥४५॥ द्वात्रिंशत्पात्रबद्धानां, नाटकानां सहस्रकाः। द्वात्रिंशद् ढौकितानां खकन्योद्वाहेऽखिलैपैः ॥ ४६॥ ग्रामाणां च । १४ लो.प्र. ८२ Jain Educati o nal For Private Personel Use Only jainelibrary.org |
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy