SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ये। दृश्यन्ते तत्पुस्तकानि, सन्ति नैसर्पके निधौ ॥ ६॥ तत्र वृत्त्यावृतो ग्रामो, लोहाद्युद्भव आकरः । नगरं । राजधानी स्याद्रनयोनिश्च पत्तनम् ॥ ७॥ जलस्थलपथोपेतमिह द्रोणमुखं भवेत् । अर्द्धतृतीयक्रोशान्तामशुन्यं मडम्बकम् ॥८॥ इति प्रथमो निधिः ॥ दीनारनालिकेरादेः, संख्येयस्य धनस्य यः। पारिच्छेद्यस्य मुक्तादेः, प्रकारश्च समुद्भवे ॥९॥ प्रस्थादिमेयं यद्धान्यं, तोल्यं यच्च गुडादिकम् । तयोः सर्व प्रमाणं च, मानोन्मानं च तादृशम् ॥१०॥ शाल्यादिधान्यबीजानां, बापाहाणामनेकधा । उत्पत्तिपद्धतिः सर्वा. दर्शिता पाण्डके निधौ ॥११॥ इति द्वितीयः। विधा आभरणानां या, नानास्त्रीपुरुषोचिताः । तुरङ्गाणां गजानां च, | ख्याताः पिङ्गलके निधौ ॥ १२ ॥ इति तृतीयः॥ चक्रिणां यानि रत्नानि, चक्रादीनि चतुर्दश । व्यावर्णिता तदुत्पत्तिः, सर्वरत्ने महानिधौ ॥ १३॥ स्फातिमन्ति भवन्त्येतन्निधानस्य प्रभावतः । चतुर्दशापि रत्नानीत्येव-2 माहुश्च केचन ॥ १४ ॥ इति चतुर्थः ॥ उत्पत्तिः सर्ववस्त्राणां, रङ्गाद्यारचनाऽपि च । ख्याता निधौ महापझे, विधिश्च क्षालनादिकः॥१५॥ इति पञ्चमः॥ कालज्ञानं निधौ काले, ज्योतिःशास्त्रानुबन्धि यत् । तथा वंशास्त्रयो येऽर्हचक्रभृत्सीरिशाह्मिणाम् ॥ १६ ॥ तेषु वंशेषु यद्भूतं, वर्तमानं च भावि यत् । शुभाशुभं तद्विज्ञेयं, सर्वमस्मान्महानिधेः ॥ १७॥ कर्मणां कृषिवाणिज्यादीनां शिल्पशतस्य च । निरूपिता स्थितिः सर्वाऽप्यस्मि-18 नेव महानिधौ ॥१८॥ इति षष्ठः॥ नानाविधस्य लोहस्य, स्वर्णस्य रजतस्य च । मणीनां चन्द्रकान्तार्ककान्ता दीनां महात्विषाम् ॥ १९॥ मुक्तानां स्फटिकानां च, प्रवालानां य आकराः। तेषामुत्पत्तिराख्याता महाकाले Jain Education na For Private Personel Use Only NMr.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy