SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ विशेषस्तज्ज्ञदर्शितः॥ ७८ ॥ इत्यश्वरत्नमाश्रित्य, निर्दिष्टं मानमागमे । लोके त्वन्योत्तमहयापेक्षयेदं तदीरितम् ॥ ७९ ॥ जघन्यमध्यश्रेष्ठानामश्वानामायतिर्भवेत् । अङ्गुलानां शतं हीनं, विंशत्या दशभिस्त्रिभिः॥८॥ परीणाहोऽङ्गुलानि स्यात्, सप्ततिः सप्तसप्ततिः। एकाशीतिःसमासेन, त्रिविधोऽयं यथाक्रमम् ॥८१॥ तथा षष्टिश्चतुःषष्टिरष्टषष्टिः समुच्छ्रयः। द्विपञ्चसप्तकयुता, विंशतिः स्यान्मुखायतिः॥८२॥ इत्यादि ॥ पृष्ठं तस्य भवेदीषन्नतं मृदुलमांसलम् । सल्लक्षणं कशावेत्रलताद्याघातवर्जितम् ॥ ८३॥ अश्वोचितानेकरत्नवर्णालङ्कारभासुरः। भवत्यसौ च निर्दोषारौद्रपक्ष्मललोचनः॥ ८४॥ उदात्तगतिवेगेन, मनःपवनतायजित् । मृणालाम्भोनिश्रयाऽपि, लाघवेन समुत्पतन् ॥ ८५॥ सत्कुलोत्था सुजातिश्च, शुचिः शास्त्रोक्तलक्षणः । तनुस्निग्धोल्लसद्रोमा, मेधावी भद्रकोऽल्परुट् ॥ ८६॥ अम्भःपङ्काग्निपाषाणवालुकोल्लङ्घने पटुः । अद्रिगादिविषमपथे जितपरिश्रमः॥८७॥ लत्ताघातास्यदंशादिष्टचेष्टाविवर्जितः। रिपुष्वतर्कितापातात्, स्यात् सुशिष्यवदाश्रवः ॥८८॥ कालहेषी रक्ततालुजिह्वो जितपरीषहः। निद्रालुः सर्वदा जागरूकश्च समराङ्गणे ॥८९॥ तथोक्तं"सदैव निद्रावशगा, निद्राछेदश्च वाजिनाम् । जायते संगरे प्राप्ते, कर्करस्य च भक्षणे ॥९॥” तथाऽऽरोह-2 कसर्वाङ्गसुखावहवपुर्गतिः। प्रशस्तद्वादशावर्तोऽनश्रुपाती अमेऽपि हि ॥ ११ ॥ सप्तभिः कुलकं ॥ द्वादशाशवश्चिमे वराहोक्ताः-"ये प्रपाणगलकर्णसंस्थिताः, पृष्ठमध्यनयनोपरिस्थिताः । ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः॥ ९२॥” अत्र प्रपाणमुत्तरोष्ठतलं, सक्थिनी पाश्चात्यपादयोर्जानूपरिभागाः, Jain Education For Private & Personal Use Only H ainelibrary.org OM
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy