________________
लोकप्रकाशे ३१ सर्गे चक्रिरूपं
॥४७८ ॥
श्वा ४ गौः ५, खरो ६ हस्ती ७ द्विकः ८ क्रमात् । पूर्वादिवलिनोऽष्टाया, विषमास्तेषु शोभनाः ॥ १२ ॥ ईशा - वाकिरत्ने नान्तासु दिक्ष्वेते, पूर्वादिक्रमतः स्थिताः । सान्वर्थनामधेयत्वात्समाः कापि न शोभनाः ॥ १३ ॥ वृर्ष १ वास्तुरचना सिंह ३ गजं ७ चैव, खेटकर्बटकौ द्वयोः । द्विपः पुनः प्रयोक्तव्यो, वापीकू पसरस्सु च ॥ १४ ॥ मृगेन्द्रमासने दद्याच्छ्यनेषु गजं पुनः । वृषं भोजनपात्रेषु, छत्रादिषु पुनर्द्विजम् ॥ १५ ॥ अग्निं वेश्मसु सर्वेषु गृहे वह्नयुपजीविनाम् । धूमं नियोजयेत् किंच, श्वानं म्लेच्छ्रादिजातिषु ॥ १६ ॥ खरो वेश्यागृहे शस्तो, ध्वाङ्खः शेषकुटीषु च । वृषः सिंहो गजश्चापि प्रासादपुरवेश्मसु ॥ १७ ॥ इत्यायो वास्तुनः प्रोक्तो, नक्षत्रमथ कथ्यते । तत्र सामान्यतो वास्तुजन्मभं कृत्तिका भवेत् ॥ १८ ॥ यदुक्तं व्यवहारप्रकाशे - " भाद्रपदतृतीयायां शनिदिबसे कृत्तिकाप्रथमपादे । व्यतिपाते रात्र्यादौ विश्वा वास्तोः समुत्पत्तिः ॥ १९ ॥" अथेष्टवास्तुनः क्षेत्रफला|ऽष्टगुणीकृते । विभक्तं सप्तविंशत्या, शिष्टं भवति जन्मभम् ॥ २० ॥ अस्मादेव च नक्षत्राद्, गृहाणां खामिना सह । राशेर्बलं प्रीतिषडष्टमकादि विचिन्तयेत् ॥ २१ ॥ सप्तसप्तादिभादीनि न्यस्येत्परिघचक्रवत् । पूर्वादिषु चतसृषु, दिश्विमानि यथाक्रमम् ॥ २२ ॥ इष्टस्य वास्तुनो जन्मधिष्ण्यमेवं समेति चेत् । द्वारदिश्यस्य गेहस्व, तदोह्योऽभिमुखः शशी ॥ २३ ॥ पाश्चात्यभित्तिदिक्प्राप्से, जन्मभेऽभीष्टवास्तुनः । चन्द्रो भवति पृष्ठस्थोऽनिष्टौ | चैतावुभावपि ॥ २४ ॥ तथाऽऽहुः- “प्रारब्धं संमुखे चन्द्रे, न वस्तुं वास्तु कल्पते । पृष्ठस्थे स्वामिघाताय, द्वयो| स्तेन त्यजेनही || २५ ||" गृह एव निषिद्धोऽयं, चन्द्रमाः सन्मुखस्थितः । प्रासादनुपसौधीगृहेषु स्वगः
Jain Educationational
For Private & Personal Use Only
२०
२५
॥ ४७८ ॥
२८
jainelibrary.org