________________
॥७१ ॥ जेतव्यवर्षे निम्नोचजलशैलादिदुर्गवित् । नानाविषमदुर्गाणां, भङ्गादानादिमर्मवित् ॥ ७२ ॥ सन्धाने प्रतिभिन्नानां, संहतानां च भेदने । उपायज्ञोऽप्रयासेन, द्विषतैव द्विषं जयन् ॥ ७३ ॥ दशभिः कुलकं ॥ तदुक्तं नीतिशास्त्रे-"भङ्गोऽस्तु कस्याप्येकस्य, योधने द्विषतो द्विषा । भवत्युभयथा लाभो, मिथो मोदकयोरिव ॥ ७४ ॥ इति सेनापतिरत्नं ॥ कोष्ठागाराद्यधिकृतो, रत्नं गृहपतिर्भवेत् । सर्वेषां चक्रिसैन्यानां, भोज्यवस्त्रादिचिन्तकः॥ ७९ ॥ सुलक्षणः सुरूपश्च, दानशौण्डो विशेषवित् । खामिभक्तः कृतज्ञश्च, विवेकी चतुरः शुचिः॥७६॥ शाल्यादिनानाधान्यानां, शाकानां चातिभूयसाम् । सिद्धिकृत् प्रातरुतानां, सायं ताहक्प्रयोजने ॥७७॥ त्रिभिविशेषकं ॥ एतस्यैवानुभावेन, सैन्यं भरतचक्रिणः । चर्मच्छन्नसमुद्स्थं, सप्ताहान्याप |भोजनम् ॥ ७८ ॥ तथोक्तं ऋषभचरित्रे-"चर्मरत्ने च सुक्षेत्र, इवोप्तानि दिवामुखे । सायं धान्यान्यजायन्त, गृहिरत्नप्रभावतः ॥ ७९ ॥ इति गृहपतिरत्नं ॥ अथ स्याद्वार्द्धकीरत्नं, दक्षधीस्तक्षकाग्रणीः । स्कन्धावारपुरग्रामनिवेशेऽधिकृतः शुचिः॥८॥ स चाधीती व्याकरणे, वास्तुशास्त्रार्थतत्त्ववित् । शब्दव्युत्पत्तिशून्यो हि, शास्त्रं किमपि नाहति ॥८॥तथाऽऽह सिद्धान्तशिरोमणी भास्कराचार्य:-“यो वेद वेदवदनं सदनं हि सम्यग, ब्रायाःस वेदमपि वेद किमन्यशास्त्रम् ।। यस्मादतः प्रथममेतदधीत्य धीमान् , शास्त्रान्तरस्य भवति श्रवणेऽधिकारी ॥ ८२॥" पत्तनग्रामनगरप्रासादापणवेश्मनाम् । निवेशने यथौचित्यं, दिक्स्थानादिविचक्षणः ॥ ८३ ॥ | गृहाणां बहवो भेदा, वास्तुशास्त्रोदिताश्च ये। तत्र सर्वत्र दक्षोऽसौ, शिल्पवित् प्रतिभापटुः॥८४॥ तथाहि
लो.प्र. ८१
Jain Education in IN
For Private & Personal Use Only
dinelibrary.org