SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे कालनिरूपणे 11 200 11 Jain Education मनुष्याणामायुषो जघन्यस्थितिः क्षुल्लकभवग्रहणरूपा प्रतिपादिता, यत्पुनरावश्यकटीकायां क्षुल्लकभवग्रहणं वनस्पतिष्वेव प्राप्यते इत्युक्तं तन्मतान्तरमित्यवसीयते इति कर्मग्रन्थवृत्तौ । एकप्राणे चावलीनां षट्चत्वारिंशदन्विताः । शताः प्रोक्ताश्चतुश्चत्वारिंशदंशाश्च पूर्ववत् ॥ ३७ ॥ तचैवं - एकक्षुल्लभ व सत्कावलीभिः परिताडयेत् । प्राणक्षुल्लभवांस्तेषु, शेषा आवलिकाः क्षिपेत् ॥ ३८ ॥ एवं चासंख्य समयैरावली ताभिरत्र यत् । संख्येयाभिः प्राण उक्तस्तत्सर्वं विशदीकृतम् ॥ ३९ ॥ नन्वावलिकादीनां यदसंख्यक्षणरूपता । प्रोक्ता तत्प्रोच्छलद्भेकैग कलिञ्जस्य पूरणम् ॥ ४० ॥ यतः पूर्वस्य सद्भावे, नोद्भवेदुत्तरः क्षणः । नश्यत्यवश्यमाद्यश्च, द्वितीये जनिमीयुषि ॥ ४९ ॥ समुचयादिको धर्मः, पुद्गलानां हि संभवेत् । विमात्र स्निग्धरूक्षाणां कालस्य तु न जातुचित् ॥ ४२ ॥ अत्रोच्यते-प्ररूपयितुकामेन, कालमावलिकादिकम् । प्रज्ञापकेन यावन्तः, क्षणा घीगोचरीकृताः ॥ ४३ ॥ विनष्टा अपि तावन्तः, समुच्चिततयाऽखिलाः । उपचर्यन्त इत्येवमावल्यादिनिरूपणा ॥ ४४ ॥ अत एवोपचरितः, सर्वोऽप्यावलिकादिकः । कालो न वास्तवः किंतु, समयः खलु वास्तवः ॥ ४५ ॥ प्राणैः स्यात्सतभिः स्तोकः, स्तोकैश्च सप्तभिर्लवः । सार्वैरष्टात्रिंशता च, लवैर्भवति नालिका ॥ ४६ ॥ भङ्गयन्तरेणाथ मानं, नाडिकाया निरूप्यते । श्रूयतां तत्सावधानैरुक्तं ज्योतिष्करण्डके ॥ ४७ ॥ १ आवश्यके कर्मणामुत्कृष्टमध्यमजधन्यस्थितिषु संबन्धे विचार्यमाणे तत्रैतन्नियमादेतदुक्तं, यद्वा तस्यापि लघुतमो भेदस्तत्रैव स्यादिति । उपलक्षणं वा तत् । २ उपलक्षणं, तेन जीवप्रदेशादीनां समुच्चयेऽपि न क्षतिः । तत्त्वतस्तु एककालवर्त्तित्वे सति परस्परं संबंधभात्त्वं तच्च न काले । For Private & Personal Use Only क्षुल्लकभवप्रकरणं २० २५ २६ ॥३७७॥ Jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy