________________
Jain Education
1
वलिकाभिर्मुहूर्त्तावलिका यदि । विभज्यन्ते तदा लभ्या मौहूर्त्ताः क्षुल्लका भवा ॥ २३ ॥ अथ प्रकृतं - प्राणाश्चैकमुहूर्त्त स्युः, सप्तत्रिंशच्छतानि वै । त्रिसप्तत्या संयुतानि [ ३७७३], राशिरेष विभाजकः ॥ २४ ॥ मौहूर्त्तक्षुल्लकभव [६५५३६] राशिरतेन भज्यते । तदाऽऽप्यन्ते सप्तदश, प्राणत्य क्षुल्लका भवाः ॥ २५ ॥ त्रयोदश शताः पश्चनवत्या च समन्विताः । अंशा उपरि शिष्यन्ते, भवस्याष्टादशस्य वै ॥ २६ ॥ अष्टसप्ततिसंयुक्ताश्चेत्रयोविंशतिः शताः । क्षिप्यन्तेऽंशा एषु पूर्णः स्यात्तदाऽष्टादशो भवः ॥ २७ ॥ अथो कित्य आवल्यः, स्युत्रयोदशभिः शतैः । भागैः पञ्चनवत्याख्यैः, शेषैस्तदपि कथ्यते ॥ २८ ॥ शतात्रयोदशांशानां, ये पञ्चनवतिस्पृशः । षट्पञ्चाशद् द्विशत्या ते, हन्तव्या कर्त्तुमावलीः ॥ २९ ॥ शेषाङ्काः क्षुल्लक भवसत्का एते हि सन्त्यतः । क्षुल्लभवावलिकाभिर्भवन्त्यायलयो हताः ॥ ३० ॥ जाताञ्चावलिकास्तेषां घाते लक्षत्रयं तथा । सप्तपञ्चाशत्सहस्राः शतं विंशतिसंयुतम् [ ३५७१२० ] ॥ ३१ ॥ त्रिसप्ततिसमायुक्त सप्तत्रिंशच्छतात्मना [ ३७७३ ] । प्रागुक्तभाजकेनास्य, राशेर्विभजने सति ॥ ३२ ॥ चतुर्नवतिरावल्यो, लभ्यतेऽंशाः पुनः स्थिताः । चतुर्विंशतिरेवाष्टपश्चाशदधिकाः शताः ॥ ३३ ॥ एवं च क्षुल्लकभवाः, प्राणे सप्तदशैकके । चतुर्नवतिरावल्य, आपल्या अंशकाः पुनः ॥ ३४ ॥ त्रिसप्तत्या युतैः सप्तत्रिंशता विकलैः शतैः । छिन्नाया अष्टपञ्चाशाः स्युश्चदुर्विंशतिः शताः ॥ ३५ ॥ इति क्षुल्लकभवप्रकरणं । क्षुल्लकभवप्रयोजनं चैवं आयुः क्षुल्लभवमितमौदारिकवपुर्भृताम् । जघन्यतो विनिर्दिष्टं, पञ्चमाङ्गे जिनेश्वरैः || ३६ || कर्मप्रकृत्यादिष्वपि औदारिकशरीराणां तिर्य
For Private & Personal Use Only
१०
१४
jainelibrary.org