________________
लोकप्रकाशे
काल निरू
पणे
॥३७६॥
Jain Educati
चप्पुट्टिकायां चासंख्येयाः समया बुधैः ॥ ८ ॥ तं खरूपेण जानन्तोऽप्यर्हन्तोऽत्यन्त सौक्ष्म्यतः । शृङ्गग्राहिकयाऽन्येभ्यो, निर्देष्टुं शक्नुवन्ति न ||९|| निर्देशो हि भवेत्तत्तद्वचोव्यापारपूर्वकः । व्यापारो वचसां चैषोऽसंख्येयैः समयैर्भवेत् ॥ १० ॥ यावत्समय इत्येषोचार्यतेऽक्षरसंततिः । असंख्याः समयास्तावदतिक्रामन्त्यनेकशः ॥ ११ ॥ जघन्ययुक्तासंख्यातमितैः स्यादावली क्षणैः । संख्येयाभिश्वावलीभिः, प्राणो भवति निश्चि तम् ॥ १२ ॥ नीरोगस्यानुपहतकरणस्य बलीयसः । प्रशस्ते यौवने वर्त्तमानस्याव्याकुलस्य च ॥ १३ ॥ अप्राप्तस्याध्वनः खेदमाश्रितस्य सुखासनम् । स्याद्यदुच्छ्वासनिःश्वासमानं प्राणः स कीर्त्तितः ॥ १४ ॥ तत्र चउच्छ्रास ऊर्द्धगमनस्वभावः परिकीर्त्तितः । अधोगमनशीलश्च निःश्वास इति कीर्त्तितः ॥ १५ ॥ संख्ये यावलिकामानौ, प्रत्येकं तावुभावपि । द्वाभ्यां समुदिताभ्यां स्यात्कालः प्राण इति श्रुतः ॥ १६ ॥ रोगार्त्ता|देश्च निःश्वासोच्छ्वासावनियताविति । उक्तं पुंसोऽरोगतादिविशेषणकदम्बकम् ॥ १७ ॥ भवन्ति क्षुल्लकभवा, एकप्राणे यथोदिते । सातिरेकाः सप्तदश, श्रूयतां तत्र भावना ॥ १८ ॥ मुहूर्त्ते क्षुल्लक भवा, एकस्मिन् परिकीर्त्तिताः । पञ्चषष्टिः सहस्राणि पत्रिंशा पञ्चशत्यपि ॥ १९ ॥ अत्र कः प्रत्यय इति, यदि शुश्रूषति भवान् । तदा तदपि निश्चित्य, श्रूयतां प्रतिपाद्यते ॥ २० ॥ एका कोटी सप्तषष्टिलक्षाण्यथ सहस्रकाः । स्युः सप्तसप्ततिर्युक्ता, द्विशत्या षोडशाख्यया ॥ २१ ॥ [ १६७७७२१६] एता मुहूर्त्त एकस्मिता आवलिका जिनैः । एकलभवे चैताः, षट्पञ्चाशा शतद्वयी ॥ २२ ॥ क्षुल्लभवा
ational
For Private & Personal Use Only
नैश्व कि व्यावहारि कौ समय आवली च
२०
॥ ३७६ ॥
२५
२६
w.jainelibrary.org