SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ क्षितम् । भावी समयराशियः, कालः स स्यादनागतः ॥ ९७ ॥ वर्तमानः पुनर्वर्तमानैकसमयात्मकः । असौ | नैश्चयिकः सर्वोऽप्यन्यस्तु व्यावहारिकः ॥९८ ॥ इति जम्बूद्वीपप्रज्ञप्तिवृत्त्याद्यभिप्रायः, योगशास्त्राद्यप्रकाशवृत्तौ तु-लोकाकाशप्रदेशस्था, भिन्नाः कालाणवस्तु ये। भावानां परिवर्ताय, मुख्यः कालः स उच्यते ॥९९॥ज्योतिःशास्त्रे यस्य मानमुच्यते समयादिकम् । स व्यावहारिकः कालः, कालवेदिभिरामतः ॥१०॥ इत्युक्तमिति ज्ञेयम् , एतदनुसारेण च समयक्षेत्राद्वहिरपि कालखीकारो मुख्यतया संपन्नः, तत्त्वं पुनः सर्वज्ञ- ५ वेद्यमिति । संख्येयश्चाप्यसंख्येयोऽनन्तश्चेत्यथवा त्रिधा । शीर्षप्रहेलिकान्तः स्यात्तत्राद्यः समयादिकः ॥१॥ असंख्येयः पुनः कालः, ख्यातः पल्योपमादिकः । अनन्तः पुद्गलपरावर्त्तादिः परिकीर्तितः ॥२॥ तत्र । कालविशेषो यः, सूक्ष्मत्वाद्योगिनाऽपि नो । विभक्तुं शक्यते सैष, समयः समये श्रुतः ॥ ३ ॥ जीर्णे पटे । भिद्यमाने, तरुणेन बलीयसा। कालेन यावता तन्तुस्ट्यत्येको जरातुरः॥४॥ असंख्येयतमो भागो, यः स्यात्कालस्य तावतः। समये समयः सैष, कथितस्तत्त्ववेदिभिः॥५॥ तस्मिंस्तन्तौ यदेकस्मिन् , पक्ष्माणि | स्यरनेकशः। प्रतिपक्ष्म च संघाताः, क्षणच्छेद्या असंख्यशः॥६॥ तेषां क्रमात् छेदनेषु, भवन्ति समया पृथक । असंख्यैः समयैस्तत् स्यात्तन्तोरेकस्य भेदनम् ॥७॥ एवं पत्रशतोद्वेधं, चक्षुरुन्मेष एव.च । भाव्या-| १ दिगम्बरानुवादोऽयं, यद्वा अणवः अंशाः, समयश्वांशरूप एव, तेन च प्रतिपर्यायं वर्तनभेदेन समयभेदः, लोकशब्देन वा नृलोकोऽत्र 18 ग्राह्यः, तेन समग्रनृलोकव्यापिता तस्योक्ता स्यात् । Jain Educat i onal For Private & Personal Use Only Objainelibrary.org 1 .
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy