SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे कालनिरू पणे ॥३७५॥ Jain Educatio याद्, द्विधाऽप्येष निरूप्यते ॥ ८२॥ अन्नपाकक्रियोद्भूतधूमानां प्रशमं पुरे । पानीयहारिणीशून्यं, दृष्ट्वा वाऽप्यवटादिकम् ॥ ८३ ॥ काकांश्चापततो दृष्ट्वा, गृहेषु गृहमेधिनाम् । साधुना लक्ष्यते भिक्षावसरोऽतिसमीपगः ॥ ८४॥ तथाहुर्भाष्यकारा :- "निद्धमगं च गामं महिलाथूभं च सुण्णयं दहुँ । नीयं च काया ओलेंति जाया भिक्खस्स हरहरा ॥ ८५ ॥” आमोदिमोदकाकीर्ण, शून्यं कान्दविकापणम् । मत्तां गृहाङ्गणे सुप्तां तथा प्रोषितभर्तृकाम् ||८६|| निर्मक्षिकं मधु खच्छं, पश्यतां प्रकटं निधिम् । तत्तत्पदार्थग्रहणदेशकालस्तदर्थिनाम् ॥ ८७ ॥ एवं शुभाशुभे कार्ये, यः प्रस्तावस्तदर्थिनाम् । स सर्वो देशकालः स्याद्वक्तुं शक्यः स्फुटं कियान् ? ॥ ८८ ॥ यो यस्य मृत्युकालः स्यात्, कालकालः स तस्य यत् । कालं गतो मृत इति गम्यते लोकरूढितः ॥ ८९ ॥ कृष्णवर्णे च मरणे, स्यात्कालग्रहणेऽपि च । कालशब्दो देशका प्रस्तावे परिभाषितः ॥ ९० ॥ तथोक्तं"कालेण कओ कालो अम्हं सज्झायदेसकालंमि । तो तेण हओ कालो अकालि कालं करंतेणं ॥ ९१ ॥” अद्धाकालस्यैव भेदः, प्रमाणकाल उच्यते । अहोरात्रादिको वक्ष्यमाणविस्तार वैभवः ॥ ९२ ॥ पञ्चानामथ वर्णानां मध्ये यः श्यामलद्युतिः । स वर्णकालो विज्ञेयः, सचित्ताचित्तरूपकः ॥ ९३ ॥ भवत्यौदयिकादीनां, या भावानामवस्थितिः । सादिसान्तादिभिर्भङ्गैर्भावकालः स उच्यते ॥ ९४ ॥ अत्र प्रमाणकालोऽस्ति, प्रकृतः स प्रतन्यते । अतीतोऽनागतो वर्त्तमानश्चेति त्रिधा स च ॥ ९५ ॥ अवधीकृत्य समयं वर्त्तमानं विवक्षितम् । भूतः समयराशिर्यः, कालोऽतीतः स उच्यते ॥ ९६ ॥ अवधीकृत्य समयं वर्त्तमानं विव ational For Private & Personal Use Only उपक्रमका लदेशकाल प्रमाण काला: २० २५ ॥३७५॥ २८ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy