________________
वर्षशतादिभिः।भुक्तं त्वन्तर्मुहूर्तेन, तदेवैतत्कथं नु तत् ? ॥६७ ॥ किंच-अस्तु सोपक्रम सर्व, सर्वे वा निरुपक्रमम् । भेदः कुतः? कथं नो वा, परावर्तोऽनयोमिथः ? ॥ ६८ ॥ अत्रोच्यते-बद्धं यद्वन्धसमये, परिणामेन । तादृशा । तत्स्यादुपक्रमैः साध्य, साध्यो रोग इवौषधैः॥ ६९॥ असाध्यरोगवद्यत्तु, परिणामेन तादृशा बद्धं तदुचितात्कालविपाकादेव नश्यति ॥ ७० ॥ रोगे ह्यसाध्ये शक्तिनौषधादेर्विद्यते यथा । कर्मण्युपक्रमाभावस्तथा स्यान्निरुपक्रमे ॥ ७१ ॥ विचित्राणि कर्मबन्धाध्यवसायास्पदानि यत् । वर्त्तन्तेऽसंख्यलोकाभ्रप्रदेश प्रमितानि वै॥७२॥ तेषु सोपक्रमकर्मजनकान्येव कानिचित् । कानिचिद्वन्धजनकान्यनुपक्रमकर्मणाम् ॥७३॥ यादृशाध्यवसायेन, बद्धं यत्कर्म यादृशम् । तभोक्तव्यं तथा नैवं, कृतनाशाकृतागमा ॥ ७४॥ क्षेत्रे तुल्येऽपि गन्तव्ये, बहूनां योजनादिके । गतिपाटवभेदेन, काल भेदो यक्ष्यते ॥ ७९ ॥ तुल्येऽपि शास्त्रेऽध्येतव्ये, बहूनां ग्रन्थमानतः । बुद्धिपाटवभेदेन, कालभेदो यथेक्ष्यते॥ ७६ ॥ तुल्येऽपि रोगे भैषज्यपथ्यादितारतम्यतः। निवृत्तिकालो रोगस्य, बहूनां बहुधा यथा ॥७७॥ समानस्थितिकेऽनेकैबद्ध कर्मणि देहिभिः । परिणामविशेषेण, भोगकालस्तथा पृथक् ॥ ७८॥ पिण्डीभूतः पट: क्लिनश्चिरकालेन शुष्यति । प्रसारितः स एवाशु, तथा कर्माऽऽशूपक्रमैः॥ ७९ ॥ विनाऽपवर्तनां लक्षादिको राशिर्विभज्यते । चिरेणापवर्तितस्तु, क्षिप्रं कर्मापि तत्तथा ॥८॥ द्वेधोपक्रमकालोऽयं, सप्रसङ्गः प्ररूपितः । देशकालाभिधं कालमथ ब्रूमो यथागमम् ॥ ८१॥ कार्यस्यार्यस्य वाऽन्यस्य, यो यस्यावसरः स्फुटः । स तस्य देशकाल:
यौ.प्र.६४
Jain Education International
For Private & Personel Use Only
ww.jainelibrary.org