________________
लो. प्र. ८०
Jain Education
एतेऽनुकम्पयमनुजमात्रत्वात्तत्र नोचितम् । शरमोक्षणमित्येष, नैनमाद्रियते विधिम् ॥ १८ ॥ इति श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रे, यत्तु श्री है मऋषभचरित्रे भरतस्यात्र शरमोक्षणमुक्तं तन्मतान्तरमवसेयं । अथ विद्याधरास्तेऽपि, जानन्ति चक्रवर्त्त्यसौ । स्मरत्यस्मान् वयं चास्य, सेवकाः शाश्वतस्थितेः ॥ १९ ॥ यदमी अवधिज्ञानाद्यभावेऽपि विदन्ति वै । चक्रिणश्चिन्तितं तच्चाचिन्त्य दिव्यानुभावतः ॥ २० ॥ सौधर्मेशानगा देव्यो यथोर्ध्वस्वर्गवासिनाम् । कामुकानामभिप्रायं, जानन्ति दिव्यशक्तितः ॥ २१ ॥ तेऽथ प्राभृतमादाय, स्त्रीरत्नादिकमद्भुतम् । नमन्ति चक्रिणं खामिन् !, वयं स्मः सेवका इति ॥ २२ ॥ युयुत्सवः कदाचित्ते, चेद्भवन्ति धृतायुधाः । साधितानेक विद्यात्रा, भटमन्या महाभुजाः ॥ २३ ॥ तदा रणरसं तेषामापूर्य विविधाद्वैः । वशीकरोति तांश्चक्री, निषादी कुञ्जरानिव ॥ २४ ॥ अत एव जम्बूद्वीपप्रज्ञसिचूर्णो भरतचत्रयधिकारे 'अण्णे भणंती' त्युक्त्वा द्वादशवर्षावधि नमिविनमिभ्यां सह युद्धमुक्तमिति ज्ञेयं । स्वीकृत्य प्राभृतं तेषां सोऽथ सत्कृत्य तानपि । विसृज्य मुदितस्तेषां कुरुलेऽष्टाहिकोत्सवम् ॥ २५ ॥ वैताढ्यात्तत ऐशान्यां गङ्गादेवीगृहं प्रति । प्रतिष्ठते चक्ररत्नं, गङ्गाखण्ड
१] अवधेयं यदुत त्रिपष्टीयादिचरित्रे चक्रिणोऽधिकारः सर्वच क्रिसाधारणः षट्खण्डजये, न तेन तथाऽन्यचक्रिणां साधनमदर्शीति, जम्बूद्वीपप्रज्ञप्ति भरतक्षेत्रान्वर्थतायां भरतचक्री वक्तुमुपक्रान्तः, स चावसर्पिण्यामादौ भवेत्, तदा च युग्मित्वासत्तेः स्याद् भद्रकता, विनाऽपीपुक्षेपं स्यादेव साधनं परं न तथा सर्वेषामिति शरक्षेपवर्णनं, तथा च स्वयमनागमे शरमोक्षणं कर्त्तव्यमिति तत्त्वं दिव्यानुभावो हि युग्मित्वकालप्रत्यासत्तौ न्याय्य एव, भद्रकत्वादेव च कदाचिद् युद्धमपि ।
For Private & Personal Use Only
ainelibrary.org