SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे ३१ सर्गे चक्रिवरूपं ॥४६९॥ दन्तादन्तिप्रवृत्तेभयुद्धोद्यद्भुतभुक्कणाः । द्योतन्त इव खद्योतास्तत्र रेणुतमोघने ॥७१ ॥ घोरान्धकारे तत्राश्व-पट्खण्डखुरक्षुण्णरजोभरैः। विध्यन्ति रिपुमर्माणि, वीराः शब्दानुगैः शरैः ॥७२॥ कबन्धास्तत्र धावन्तः, पथि विजया नन्ति तरूनपि । प्रतिपक्षधिया खङ्गैः, स्फुजेबीररसोद्भटाः॥७३॥ तत्र तूर्यारवोत्फुल्लपुलकोत्साहसाहसाः।। वीरास्तृणाय मन्यन्ते, जीवितेन समं जगत् ॥ ७४ ॥ यद्येवंविधसंग्रामे, परिभूयेत कर्हि चित् । अतुच्छविक्रम-18 म्लेंच्छचक्रगैश्चक्रिणश्चमूः ॥७५ ॥ तदा सन्नह्य सेनानीर्योटुं प्रक्रमते दृढम् । तुरङ्गरत्नमारूढः, खड्गरत्नं करेडी दधत्॥७६॥ युग्मम् । एतस्मिन् युध्यमाने च, भज्यन्ते नाकिनो यदि । तदा के नाम ते म्लेच्छा, गजद्विषि वृका २० इव ? ॥ ७७ ॥ अथासौ भटकोटीरस्तीव्रशस्त्रज्वराङ्कुशैः। कुक्षिक्षिप्तः शमयति, प्रतिपक्षमज्वरम् ॥ ७८॥ तदा च केचिनश्यन्ति, केचित्क्रन्दन्ति चार्दिताः। लुठन्ति केचिद्भपीठे, तिष्ठन्त्यन्ये मृता इव ॥७९॥ केचित्यजन्ति शस्त्राणि, वस्त्राणीवास्तचेतनाःक्षिपन्ति वदने केचिद्दीनवाचो दशाङ्गलीः॥८॥ तृणान्याधाय दन्तेषु, याचन्ते जीवितं परे । लज्जाविलक्षाः शोचन्ति, चेति केचिदधोमुखाः॥ ८१॥ हा गतं राज्यमस्माकं, हा गता खैरचारिता । ते धन्याःप्राग्विपन्ना ये, धिगस्मान् दुःखदर्शिनः॥८२॥ अश्लाघामहि ये शौर्यमात्मीयं योषितां पुरः। ते कथं कातरास्तासां, मुखं दर्शयितास्महे ? ॥ ८३ ॥ वृथाऽभूद्दोमंदोऽस्माकं, वृथाऽभूच्छनकौशलम् । ॥४६९॥ भग्नैः कथमथ स्थेयमस्माभिर्भटपर्षदि ॥८४॥ विषण्ण इति ते खेष्टदेवाननुस्मरन्ति चेत् । तदा ते बोधयन्त्येवं, खिद्यध्वे किं जडा मुधा ? ॥८५॥ एष षट्खंडभूपालैः, सेव्यते युद्धनिर्जितैः । युष्माकमत्र का लज्जा ?, २८ Jain Educator YAR For Private Personel Use Only Dee jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy