SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे ३१ सर्गे चक्रिस्वरूपं ॥४६७॥ Jain Educatio लवणोदधिः ॥ ११ ॥ यद्यप्येभिस्त्रिभिः कृप्तं, मध्यखण्डान्तथाप्यदः । सिन्ध्वा पृथक्कृतं तस्मात्सिन्धु निष्कुटमुच्यते ॥ १२ ॥ स चर्मरत्नमादाय, चतुरङ्गचमूवृतः । प्रस्थानं कुरुते तत्र, द्वितीय इव चक्रभृत् ॥ १३ ॥ गर्ज - | दुर्जितनिः स्वानध्वानध्वस्तेतरध्वनिः । अनूदितजयारावः, क्षुण्णैर्विविधभूधरैः ॥ १४ ॥ जयकुञ्जरमारूढः सच्छश्चलचामरः । कवचच्छन्नसर्वाङ्गो, मेघैर्वृत इवोडुपः ॥ १५ ॥ चर्मरत्नेन सद्यानपात्रीभूतेन तेन सः । सिन्धुतीर्य शैलोचवीची वलयदुस्तराम् ॥ १६ ॥ तत्रत्यानां प्रतीपानां चिकित्सक इवाद्भुतः । विरेकरुधिरश्राववह्निक|र्मादिकोविदः ॥ १७ ॥ दशाङ्गुल्यौषधी वर्गरसपानोपदेशकः । हरत्यस्त्रैः प्रतापोष्णैरौद्धत्यं सान्निपातिकम् ॥१८॥ पञ्चभिः कुलकं ॥ एवं च - सिंहले यवनद्वीपे, नानाम्लेच्छाश्रयेष्विति । रोमार बालसण्डादिदेशेषु विविधेषु सः ॥ १९ ॥ म्लेच्छाननेकजातीयान्, विजित्य रणकर्मठः । आज्ञामखण्डां सर्वत्र, प्रवर्त्तयति चक्रिणः ॥ २०॥ युग्मम् ॥ चक्रवचितान्येषां प्राभृतानि सहस्रशः । जितकासी समादाय, सिन्धुमुत्तीर्य पूर्ववत् ॥ २१ ॥ भूरिभिः किङ्करीभूतैः सेवितो म्लेच्छपार्थिवैः । वाचालजयवादित्रः स्तूयमानोऽसकृज्जनैः ॥ २२ ॥ उपेत्य चक्रिणं नत्वा, ढोकयित्वोपदाश्च ताः । विज्ञो विज्ञपयत्येवं, विनयेन कृताञ्जलिः ॥ २३ ॥ त्रिभिर्विशेषकं ॥ खामिन् ! भवत्प्रसादेन, सिन्धुखण्डो जितो मया । भूपाः सर्वेऽपि तत्रत्या मया त्वत्किङ्करीकृताः ॥ २४ ॥ एते नमन्ति ते केचिदिदं तेषां च ढौकनम् । प्रह्वीभूतेषु चैतेषु, कार्यः खामिन्ननुग्रहः ॥ २५ ॥ तदाकर्ण्य प्रमुदितश्चक्रवर्ती चमूपतिम् । सत्कृत्य वस्त्रालङ्कारैरनुजानाति वेश्मने ॥ २६ ॥ ततः खावासमागत्य, स भुङ्क्ते कृतमज्जनः । ततश्च national For Private & Personal Use Only षट्खण्डविजयः २० २५ ॥४६७॥ २८ w.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy