SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे ३१ सर्गे चक्रिस्वरूपं ॥४६६॥ Jain Education वरदामाभिधं तीर्थ, शुद्धदक्षिणदिस्थितम् । याति साधयितुं चक्रं पथा नैर्ऋतगामिना ॥ ८२ ॥ तथोक्तं"आउहघरसालाओ पडिनिक्खमित्ता दाहिणपञ्चत्थिमं दिसिं वरदामतित्थाभिमुहे पयाए यावि होत्थ"त्ति, ततश्चमूपरिवृतश्चक्रवर्त्त्यपि पूर्ववत् । अनुगच्छति तच्चक्रमिवाङ्गी कर्मणां फलम् ॥ ८३ ॥ वर्द्धमानचमूर्भूपैर्विजित्य स्वीकृतैः पथि । दुर्वारप्रसरः प्रौढप्रवाह इव सैन्धवः ॥ ८४ ॥ प्रयाणकानि कतिचिद्गत्वा नैर्ऋत्यसंमुखम् । ततोऽपाचीमनुसरन्, वरदामं प्रयाति सः ॥ ८५ ॥ वरदामान्तिके प्राग्वत्, स्कन्धावारं निवेश्य सः । साधयेद्वरदामेशं देवं मागधदेववत् ॥ ८६ ॥ वरदामाधिपस्याथ, संपूर्णेऽष्टाहिकोत्सवे । जेतुं प्रभासतीर्थेशं, चक्रं चरति पूर्ववत् ॥ ८७ ॥ स्थितं शुद्धप्रतीच्यां तद्वायव्य विदिगध्वना । चक्रं प्रवर्त्तते गन्तुं प्रत्यक् च वलते पुरः | ॥ ८८ ॥ वशीकृत्य प्रभासेशं, पूर्वोक्तविधिना ततः । तत्सिन्धुदेवी भवनाभिमुखं परिसर्पति ॥ ८९ ॥ सिन्धोदक्षिणकूलेन, पूर्व दिग्गामिनाऽध्वना । गत्वाऽभ्यर्णे सिन्धुदेवी भवनस्याशु तिष्ठति ॥ ९० ॥ ननु च - सिन्धुदे - व्यास्तु भवनं भरतस्योत्तरार्द्धके । सिन्धुकुण्डेऽस्ति तदूद्वीपे कथं तस्यात्र संभवः १ ॥ ९१ ॥ अत्रोच्यतेमहर्द्धिकानां वेश्मानि, स्थाने स्थाने भवन्ति हि । इन्द्राणीनां राजधान्यो, यथा नन्दीश्वरादिषु ॥ ९२ ॥ ततः सिन्धुद्वीपवर्तिभवनादपरं खलु । इदं भवनमभ्यूह्यं, सिन्धुदेव्या महाश्रियः ॥ ९३ ॥ निवेश्य चक्रभृत्तल, स्कन्धावारं यथाविधि । कृताष्टमतपाः सिन्धुदेवीं मनसि चिन्तयेत् ॥ ९४ ॥ साऽथ कम्प्रासना दत्तोपयोगा चक्रवर्तिनम् । ज्ञात्वोत्पन्नमुपादायोपदां तमुपतिष्ठते ॥ ९५ ॥ एवं च सिन्धुदेवीवद्वैताढ्यादिसुरा अपि । शर ional For Private & Personal Use Only 'षट्खण्डविजयः २० २५ ॥ ४६६ ॥ २८ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy