SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Jain Education I सुरा ताओ अह कोइ पराभवं जइ करेजा । तो पक्खालिअ ताओ सलिलेण करंति निअरक्खं ॥ ४६ ॥” आस्तां त्रिजगदर्थ्यांना मस्थि ग्रहण मर्हताम् । सुरा आददतेऽस्थीनि, योगभृञ्चक्रिणामपि ॥४७॥ इत्यर्थतो जम्बू प्र० वृ० । चिताभस्मापि गृह्णन्ति, शेषं विद्याधरादयः । सर्वोपद्रवनिर्नाशविधौ परममौषधम् ॥ ४८॥ रजस्यपि गृहीतेऽस्मादहंपूर्विकया नरैः । गर्त्ता भवत्यखातैव, चितास्थाने ततोऽर्हताम् ॥ ४९ ॥ मा भूदपरलोकांहिस्पर्शादाशात नेत्यथ । सातत्येन च तीर्थस्य, प्रवृत्तिर्भवतादिति ॥ ५०॥ रत्नैरापूर्य तां गर्त्ता, खचितं रत्नकाञ्चनैः । कारयत्यर्हतां चैत्यस्तूपं शक्रः सुरासुरैः ॥ ५१ ॥ गणीनां च मुनीनां च, चित्यास्थानकयोरपि । शक्रः स्तूपौ कारयति, रत्नखर्णमणीमयौ ॥ ५२ ॥ एवं चतुर्विधा देवा, निर्वाणस्य महोत्सवम् । यथोचितं विदधते, भक्तिनिर्भरचेतसः ॥ ५३ ॥ ततो नन्दीश्वरे गत्वा, विधायाष्टाहिकोत्सवम् । यान्ति खत्रविमानेषु यथास्वं भवनेषु च ॥ ५४ ॥ सुधर्माख्यसभाविर्तिचैत्यस्तम्भावलम्बिषु । समुद्गकेषु यान्यासन्नस्थीनि प्राक्तनार्हताम् ॥ ५५ ॥ तान्यर्चयन्ति संस्थाप्य, सिंहासने समुद्गकान्। समुद्रकेषु तेष्वेव, सद्यस्कानि क्षिपन्ति च ॥५६॥ ततोऽभ्यर्च्य पुनः स्तम्भे, लम्बयन्ति समुद्गकान् । चैत्यदैवतवत्तानि नित्यमाराधयन्ति च ॥५७॥ इदमर्थतः षष्ठाङ्गसूत्रवृत्तौ मल्लिनिर्वाणाधिकारे । सभायां च सुध|मयां तेषामाशातनाभिया । कामक्रीडां न कुर्वन्ति, जिनभक्ताः सुराधिपाः ॥ ५८ ॥ कालेन कियता चैते, गतशोकाः सुरेश्वराः । गीतनाट्या दिसौख्यानि, भुञ्जानाः सुखमासते ॥५९॥ इत्यनन्तगुणरत्न शालिनाम तामुदितमागमोदधेः । वर्णनं तदुरुवर्णवर्णिका कर्णिकार विपिनप्रसूनवत् ॥३०॥ (रथोद्धता) विश्वाश्वर्यदकीर्त्तिकीर्त्तिविजयश्री For Private & Personal Use Only १० १४ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy