SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ यन्निश्रयाऽऽगतः। त्रिदशो वा मनुष्यो वा, स तत्पाघे निषीदति ॥ ३५॥ देव्यश्चतुर्दा साव्यश्च, शृण्वन्त्यू दमाः क्षणम्। देवाः सर्वे नरा नार्यो, निविष्टाः श्रमणास्तथा ॥३६ ॥ वृत्तावावश्यकस्येदं, चूर्णी चोत्कटिका-1 सनाः। शृण्वन्ति साधवोऽथोर्ध्वाः, साध्व्यो वैमानिकाङ्गनाः॥३७॥ उपविश्यैव शृण्वन्ति, देशनामाप्तभाखताम् । पर्षदोऽन्या नवेत्युक्तं, वेत्ति तत्त्वं तु तत्त्ववित् ॥ ३८ ॥ अपूर्व यत्र समवसरणं नेक्षितं च यैः । अपि द्वादश-| योजन्यास्ते तत्रायान्ति साधवः॥३९॥ अथ चेत्साधवस्तत्र, ते नायांति श्लथादराः। तत्प्रायश्चित्तमर्हन्ति, चतुगुरुकसंज्ञकम् ॥४०॥ आगच्छतां च बालानां, ग्लानानां जरतामपि । न कोऽप्युपद्रवो नातिनं त्रासः स्यान्न वा श्रमः॥४१॥ तावदुत्तुङ्गसोपानसहस्रारोहणे भवेत् । न कस्यापि श्रमश्वासव्यथाः शम्भुप्रभावतः॥४२॥ स्त्रीक्षेत्रवित्ताद्युत्थानि, पितृघातोदितान्यपि । तत्रागतानां शाम्यन्ति, द्रुतं वैराणि पापवत् ॥४३॥ युद्ध्यमाना मिथः क्रूराः, क्रोधरक्तेक्षणाननाः। कम्पमाना उदस्तास्त्रा, उच्छुण्डाः कुञ्जरा इव ॥४४॥ भवन्ति ये तेऽपि तत्रागता विस्मृतविग्रहाः। प्रशान्तचित्ताः शृण्वन्ति, धर्म स्वामिप्रभावतः॥४५॥युग्मम् । न कोऽपि विकथां कुर्याद्याक्षेपं कोऽपि नापरम् । तदेकचित्ताः शृण्वन्ति, जिनानां देशनां जनाः॥४६॥ शृण्वन्ति येऽपि तिर्यञ्चः, स्थिता वप्रे द्वितीयके। तेऽपि विस्मृतजात्यादिवैरा: स्युस्तत्प्रभावतः॥४७॥ पार्श्वस्थं सिंहमातङ्गं, शार्दूलहरिणं तथा। | १ ध्यानकोष्ठोपगतत्वावस्थायामुत्कटिकासनं साधूनां, तत्र श्रीजिनदेशनानवणार्थ च स्थानं, यद्वा औपग्रहिकमासनमिति तद्भावाभावकतो भेदः, भवनपत्यादिदेवीनां श्राविकाणां च तथा सामान्येन ठंतिशब्देन कथनेऽपि यथायोगमेव स्यादिति न विरुद्धता। लो.प्र. ७८ Jain Education ork For Private Personal Use Only hinelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy