SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Jain Education धिनाम् ॥ ७ ॥ तथाहि - खयंभूरमणाम्भोधिमत्स्यमांसाशनादिकम् । त्रिविधं विविधेनापि प्रत्याख्यात्येव कोऽपि यत् ॥ ८ ॥ अस्यात्पविषयत्वेन, कादाचित्कतयाऽपि च । नैवावश्यकनिर्युक्तौ, भङ्गकोऽयं विवक्षितः ॥९॥ षोढा पूर्वोक्तषङ्गया, स्यादेकैकमणुव्रतम् । त्रिंशद्भिदोऽथ द्वात्रिंशत्, ससम्यक्त्वोत्तरव्रताः ॥ १०॥ तथात्रिका द्विका एकका ये, प्रत्येकं ते त्रयस्त्रयः । स्थाप्यन्ते किल पङ्क्तयोर्ध्व करणादित्रयाङ्ककाः ॥ ११ ॥ एषां नवानामङ्कानामधः पङ्क्त्या क्रमाल्लिखेत् । मनोवाक्कायसूचायै, त्रिशस्त्रिकद्विकैककान् ॥ १२ ॥ आद्यो भङ्गोऽत्र सावद्यं, न कुर्वे कारयामि न । नानुजानामि मनसा, वचसा वपुषाऽपि च ॥ १३ ॥ एवमन्येऽपि भङ्गका भाव्याः ३३३३३३३३३ प्रज्ञप्त्याद्युदिता मूलभङ्गा नव भवन्त्यमी । एषामेकोनपञ्चाशद्भवन्त्युत्तरभङ्गकाः ॥ १४॥ तथाहि - त्रिभिर्मनो १ वचः २ कायै ३ स्त्रयो भेदा भवन्त्यथ । मनोवाग्भ्यां भवेत्तुर्यो ४, मनोऽङ्गाभ्यां | च पञ्चमः ५ ॥ १५ ॥ वाक्कायाभ्यां भवेत् षष्ठ ६ स्त्रिभिरेभिश्च सप्तमः ७। एते सप्तापि योज्यन्ते, सप्तभिः करणादिभिः | ॥ १६ ॥ ते चैवं - करणं १ कारणं २ चानुमति ३ श्चेति भिदां त्रयम् । भेदश्चतुर्थः करणकारणाभ्यां प्रकीर्तितः ॥१७॥ करणानुमतिभ्यां च भेदो भवति पञ्चमः । कारणानुमतिभ्यां च षष्ठस्तैः सप्तमस्त्रिभिः ॥ १८ ॥ प्रत्येकमेषु भङ्गेषु, पूर्वोक्तसतकान्वयात् । उक्ता एकोनपञ्चाशद्वतोच्चारणभङ्गका ॥ १९ ॥ प्रत्येकं भङ्गकेष्वेषु, कालत्रितययोज नात् । सप्तचत्वारिंशदाढ्यं, जायन्ते भङ्गकाः शतम् ॥ २०॥ त्रिकालविषयत्वं च स्यादतीतस्य निन्दया । संवरेणाधुनिकस्य, प्रत्याख्यानाद्भविष्यतः॥२१॥ “अईयं निंदामि, पडुप्पन्नं संवरेमि, अणागयं पचक्खामि,” तथा च For Private & Personal Use Only ५ १० १४ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy