SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ३० सर्गे ॥४५०॥ लोकप्रकाशे ? यत्र सजीवानां, यदुत्पत्तिर्भवेदिह ॥ ६ ॥ शेषाण्यभक्ष्याणि प्रतीतानि । अनन्तकायनामानि प्रागुक्तान्येव । काललोके पापोपदेशो विविधः १, पापोपकरणार्पणम् २ । आर्त्तरौद्राभिधे ध्याने ३, प्रमादाचरणं ४ तथा ॥ ७ ॥ चतुर्भेदादित्यनर्थदण्डाद्यद्विनिवर्त्तनम् । श्रावकाणां तदाख्यातं तातयीकं गुणव्रतम् ॥ ८ ॥ विषयाश्च कषायाश्च, निद्रा च विकथापि च । मद्यं चेति परित्याज्याः, प्रमादाः पञ्च सात्त्विकैः ॥ ९ ॥ राज्ञां स्त्रीणां च दे शानां, भक्तानां विविधाः कथाः । संग्राम १ रूप २ सद्वस्तु ३ खादा ४ या विकथाः स्मृताः ॥ १० ॥ मुहर्त्ता वधि सावद्यव्यापार परिवर्जनम् । आद्यं शिक्षाव्रतं सामायिकं स्यात्समताजुषाम् ॥ ११ ॥ देशावकाशिकं नाम, दिक्संक्षेपो दिनं प्रति । चतुर्दशानां संक्षेपो, नियमानामुतान्वहम् ॥ १२ ॥ ते चामी - सच्चित्त १ दव २ वि - गई ३ वाणह ४ तंबोल ५ वत्थ ६ कुसुमेसु ७ । वाहण ८ सयण ९ विलेवण १० बंभ ११ दिसि १२ व्हाण १३भत्तेसु १४ ॥ १३ ॥” पौषं धर्मस्य धत्ते यत्, तद्भवेत्पौषधव्रतम् । आहार १ देहसत्कारा २ ब्रह्म ३ व्यापार ४वर्जनम् ॥ १४ ॥ चतुर्विधः स्यादाहारोऽशनं तत्रौदनादिकम् । पानं सुराऽखिलं चाम्बु, सौवीरप्रभृतीन्यपि ॥ १५ ॥ खादिमं भृष्टधान्यानि, द्राक्षादीनि फलान्यपि । खादिमं तु लवङ्गैलापूगजातीफलादिकम् ॥ १६ ॥ कृते चतुर्वि धाहारत्याग आहारपौषधः । सर्वतः स्यान्निर्विकृत्याचामाम्लादौ तु देशतः ॥ १७ ॥ एवमन्येऽपि त्रयः स्युर्दे| शसर्वत्वयोर्द्विधा । आद्य एव हि भेदे तद्व्यवहारस्तु साम्प्रतम् ॥ १८ ॥ सदा क्वचिद्वा दिवसे, साधूनां दानपूर्वकम्। भुज्यते यत्तदतिथिसंविभागाभिधं व्रतम् ॥ १९॥ महाव्रतापेक्षयाऽऽद्यपञ्चवत्यां मताऽणुता । तद्गुणाधाय Jain Education ional For Private & Personal Use Only श्रावकाणां द्वादश व्रतानि २० २५ ॥४५०॥ २८ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy