________________
५
॥ ६० ॥ जरत्युवाच हे मातर्दीनायां मयि मा कुपः । भक्ष्यमुद्धरितं किञ्चिद्यच्छ क्षुत्पीडिताऽस्म्यहम् ॥ ६१॥ पुनरप्याहरिष्यामि, स्वस्थीभूय क्षणान्तरे । शरणं निःशरण्यायास्त्वमेवासि ममाम्बिके ! ॥ ६२॥ सा प्रोचे जनकास्थीनि, खाद प्रश्रवणं पिव । मृत्वा खस्था भवाद्यापि, म्रियसे किं न दुर्मरे ? ॥ ६३ ॥ आनीतेभ्यश्चतुर्नेषु, पुनरप्याहृतेषु रे। काष्ठेषु तुभ्यं दास्यामि, भक्ष्यं तद्गच्छ सत्वरम्॥६४॥तथैव गत्वा सारण्ये, काष्ठभारं चतुर्गुणम् । कष्टेन महतोच्चित्य, निदधौ मूर्ध्नि दुर्वहम् ॥६५॥ प्रस्फुटद्धृदया श्वासैरारोहतीव भूधरम्। उत्फुल्लगल्लप्रसरत्फू- त्कारा भुजगीव च॥६६॥लातेव क्लिन्नसर्वाङ्गचीवरा खेदनिर्झरैः। पीतमद्येव निश्चेष्टा, प्रपतन्ती पदे पदे ॥३७॥ पतन्तमप्यादधती, भारं मूर्ध्नि पुन:पुनः । रुष्टाऽभीष्टमिवानिष्टमपि वेश्यव गर्द्धना॥३८॥प्राप्तपाताऽप्यवष्टब्धा, यष्ट्या जीर्णकुटीव सा । प्रकम्पमानसर्वाङ्गोत्पन्नशीतज्वरेव च ॥१९॥ विविक्षुरिव भूम्यन्तयंग्भूता भूरिभारतः । मृत्यु संभाषमाणेव, हृदि न्यस्तकरा मुहुः॥७०॥ क्षुत्क्षीणजठरास्थित्वकशेषाशेषाऽसुखाश्रिता । समन्ताद्विश्लथा शुष्कशमीवाऽऽततकोटरा ॥७२॥ असकृद्रसनालीढसक्का शुष्कगलाधरा। दन्तशून्याऽऽस्यविगलल्लालाक्षिक्षरद- श्रुका॥७२॥क्षणे क्षणे स्मरन्ती तं, वणिकपल्याः पराभवम् ।भक्ष्यं दास्यति सा नो वेत्येवं चिन्ताऽग्निचुम्बिता ॥७३॥ अनन्यगतिकत्वेनागच्छन्ती मन्दिरं प्रति । यावत्साऽऽयाति समवसरणस्यान्तिके प्रभोः॥७४॥ तावत्कण्टकमुद्धा, सोचिक्षेप निजं क्रमम्। न्यास्थत् पाणिं च तत्र खं, तदा तत्कर्णकोटरे ॥७॥ प्रविवेशार्हतां वाणी, पीयूषद्रवपेशला। शुश्राव सैकचित्तातां, विस्मृताखिलवेदना॥७॥एकादशभिः कुलकम् । दिशत्यब्दसहस्राणि,
१०
in Educat
i
onal
For Private & Personal Use Only
djainelibrary.org