SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाश काललोके ३० सर्गे ॥४४॥ शायिनः ॥४५॥ युग्मम् ।अविच्छेदेन भगवान् , विधत्ते देशनां यदि । तदा नोद्विजते श्रोता, यावजीवमहर्निशम् || जिनेश्वरा॥ ४६॥ न क्षुत्तृष्णा न च व्याधिः, काचिदाधिश्च न स्पृशेत् । शृण्वतो भगवद्वाणी, सकलानपि देहिनः ॥४७॥ णां देशना माधुर्य भगवद्वाण्या, वाचां यद्यप्यगोचरम् । तथापि सौख्यवन्मुक्तेरोपम्पेन निरूप्यते ॥४८॥ यथाऽऽसीद|णिजः कोऽपि, मितंपचशिरोमणिः । आतृप्ति नात्मनाऽप्याद, योऽन्नं लोभ इवाङ्गभृत् ॥४९॥ अन्नं नाजीर्यदन्येषां, यस्मिन् पश्यति भक्षितम् । यः सिक्थाशङ्कया पश्यन् , स्थालीक्षालनवार्यपि ॥५०॥ लिहति स्म स्वयं स्थाली, योऽसकृत्पाणिना भृशम् । काका वराकाः श्वानो वा, किं लिहेयुस्तदङ्गणे?॥५१॥ युग्मम् । जना नोचारयन्ति स्मावश्यकेऽपि प्रयोजने । यन्नाम जातक्ते विष्टदेवान् श्रेयोऽर्थमस्मरन् ॥५२॥ भार्या तस्यानुरूपाऽऽसीद्या शुनीव वनीपकम्। दूरादपिक्षोभयति, दुर्वाक तृष्णेव जङ्गमा ॥५३॥ आसीदासी च तस्यैका, जरती गरतीव्ररुक् ।। क्षुजराजर्जरा दीना, कृशा मूर्तेव दुर्दशा ॥५४॥ प्रातः स्माह वणिकपत्नी, तां रण्डे ! याहि काननम् । एधांस्थाहर भूयांसि, न दास्याम्यन्यथाऽशनम्॥५५॥ प्रतिपद्य वचस्तस्याः, क्षीणोपायाश्रयाऽगमत। वनं शनैः शनैयष्टिमवष्टभ्य सुतामिव ॥५६॥ तत्रान्यच्छिन्नकाष्टानां, शिलोञ्छं छेदनाक्षमा। संगृह्य श्रेष्ठिनी तुष्ट्य, साम २५ ाधिकवीवधम् ॥ ५७॥ कृत्वा शिरसि तृट्तापक्षुत्खेदखेदविह्वला । पुरस्तस्या ढोकयित्वा, दैन्यादन्नं ययाच ॥४४८॥ ताम् ॥ ५८ ॥ युग्मं ॥ निस्त्रिंशा निस्त्रपा सैवं, तामभाषिष्ट दुष्टधीः । अल्पीयांसि किमेधांसि, रे रे रण्डे ! || | स्वमाहरः ? ॥ ५९॥ काष्टैः प्रज्वाल्यते क्षुद्र तावद्भिर्भवत्यपि । गृहं मे भक्षितं सर्व, रेऽकिश्चित्करया त्वया । २८ Jain Educatio n al For Private Personal use only jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy