________________
cceeeee
Roceaee
ततस्तीथै नमत्यर्हन, कृतकृत्योऽपि वा यथा । धर्म कथयति स्वामी, तथा तीर्थ नमस्यति ॥३३॥ तथाहुः श्रीभद्रबाहुखामिपादा:-"तप्पुखिया अरहया पूइयपूआ य विणयकम्मं च । कयकिच्चोऽवि जह कहं कहए णमए तहा तित्थं ॥१॥” अस्य वृत्तौ-"तीर्थ-श्रुतज्ञानं तत्पूर्विकाऽहत्ता, तदभ्यासप्राप्ते"रिति। वक्ष्यमाणैर्गुणैः पञ्चत्रिंश
ताऽलङ्कृता सदा । व्यामोत्यायोजनं वाणी, सर्वभाषानुगा प्रभोः ॥ ३४ ॥ तथाहुः श्रीहेमसूरयः काव्यानुशा&सने-"अकृत्रिमखादुपदां, परमार्थाभिधायिनीम् । सर्वभाषापरिणतां, जैनी वाचमुपास्महे ॥ ३५ ॥” तथा&"देवा दैवीं नरा नारी, शबराश्चापि शावरीम् । तिर्यञ्चोऽपि च तैरश्ची, मेनिरे भगवद्गिरम् ॥ ३६॥" यथा
जलधरस्याम्भ, आश्रयाणां विशेषतः । नानारसं भवत्येवं, वाणी भगवतामपि ॥ ३७॥ स्यात्प्रभोर्मूलभाषा च, स्वभावादर्द्धमागधी । स्यातां दे लक्षणे ह्यस्यां, मागध्याः प्राकृतस्य च ॥ ३८॥ येनकेनैव वचसा, भूयसामपि संशयाः। छिद्यन्ते वक्ति तत्सावा, ज्ञाताशेषवचोविधिः ॥ ३९ ॥ क्रमच्छेदे संशयानामसंख्यत्वाद्वपुष्मताम् । असंख्येनापि कालेन, भवेत्कथमनुग्रहः? ॥४०॥ शब्दशक्तेर्विचित्रत्वात्, संतीदंशि वचांसि च । प्रयुक्तैरुत्तरं यत्स्यायुगपद्भूयसामपि॥४१॥ सरःशरखरार्थेन, भिल्लेन युगपद्यथा । सरो नस्थित्तिवाक्येन, प्रियास्तिस्रोऽपि बोधिताः ॥४२॥ तथोक्तं-"भिल्लस्स तिन्नि भज्जा एगा मग्गेइ पाणियं पाहि । बीया मग्गइ हरिणं तइया गवरावए गीयं ॥४३॥" प्रष्टुमाकाङ्कितो योऽर्थः,प्राक् संदिग्धश्च यो भवेत् । येन वा यस्य वैराग्यं, यो वा यस्यावयोधकृत् ॥ ४४ ॥ सर्वोऽपि लोकः प्रत्येकं, तमर्थमवबुध्यते । अहंदुच्चारितादेकवाक्यादप्यति-
१४
Jnin Education
a
l
For Private & Personal Use Only
Middainelibrary.org