________________
Jain Educatio
| ॥ ६२ ॥ एतावदेव विस्तारमानमाद्यद्वितीययोः । वप्रयोरन्तरे किंतु, तत्पार्श्वद्वयमीलनात् ॥ ६३॥ तथाहि - स्याद्रूप्यवप्रात्पञ्चाशद्धनूंषि प्रतरोऽग्रतः । शताश्च द्वादशाध्यर्द्धाः, सोपानधनुषां ततः ॥ ६४ ॥ त्रयोदश शतान्येवं, धनुषामेकतोऽन्तरम् । रूप्यस्वर्णवप्रयोः स्यात्, परतोऽपि तथैव च ॥ ६५॥ पार्श्वयोरुभयोश्चैवं, स्याद्विस्तारे समु | चिते । एकः क्रोशः षट् च चापशतमानं यथोदितम् || ६६ ॥ मानमेवं खर्णरत्नवप्रान्तरेऽपि विस्तृतेः । एकः कोशः षट् शतानि, धनुषां भाव्यतां स्वयम् ॥ ६७ ॥ एवं त्रयाणां वप्राणां, व्यासमाने समुच्चिते । क्रोशत्रयं स्याद्धनुषामष्टादश शतानि च ॥ ६८ ॥ षट् वप्रभित्तयोऽत्र स्युरेकैकस्याश्च विस्तृतौ । स्युर्धनूंषि त्रयस्त्रिंशद् | द्वात्रिंशदङ्गुलानि च ।। ६९ ।। धनूंषि षड्गुणानि स्युरष्टानवतियुक् शतम् । अङ्गुलान्यपि षड्ज्ञानि स्युर्द्धानवतियुक् शतं ॥ ७० ॥ एषा चापद्रये तस्मिंश्चापराशौ नियोजिते । स्याच्चापद्विशती प्राच्यचापौधे सा नियोज्यते ॥ ७१ ॥ जातः क्रोशोऽस्मिंश्च पूर्वोदितैः क्रोशैस्त्रिभिर्युते । वृत्तं समवसरणं, जातं योजनसंमितम् ॥ ७२ ॥ अस्मिंश्च वृत्तसमवसरणे ये चतुर्दिशम् । सोपानानां सहस्राः स्युर्दश ते योजनाद्वहिः ॥ ७३ ॥ अयं भावः -- अर्हत्सिंहासनाधःस्थभूभागादेकतो भुवि । क्रोशद्वयेन स्याद्वाह्य वप्रपर्यन्तभूतलम् ॥ ७४ ॥ चतसृष्वपि दिश्वेवं, योगे च पार्श्वयोर्द्वयोः । आयामतो व्यासतश्च पूर्णं स्यादेकयोजनम् ॥ ७५ ॥ बाह्य सोपान पर्यन्तभूतलं तु भवे - ततः । पादाधिकैस्त्रिभिः क्रोशैर्जिनाघः स्य महीतलात् ॥ ७६ ॥ सोपानानां सहस्त्रैर्यद्दशभिर्जायते किल । क्रोशः सपादस्तयोगे, भवेन्मानं यथोदितम् ॥ ७७ ॥ भूमावलग्नं समवसरणं च भवेदिदम् । तथोर्ध्वमूर्ध्व
For Private & Personal Use Only
१४
jainelibrary.org