________________
सर्वेषामपि कर्मणाम् । स्थित्या दिखण्डनद्वारा, प्राप्तानामनिकाचताम् ॥ ३७॥ प्रायोऽनिकाचितानां यत्,। किल्विषेतरकर्मणाम् । शुभाशुभपरीणामवशात्स्यादपवर्त्तना ॥ ३८॥ निकाचितानामप्येवं, तीवेण तपसा भवेत् । स्फूर्जत्शुभपरीणामात्कर्मणामपवर्तना ॥ ३९॥ तथाहुमहाभाष्ये-“सबपगईणमेवं परिणामवसाद उवक्कमो होजा। पायमनिकाइयाणं तवसा उ निकाइयाणंपि ॥४०॥" नन्वप्राप्तकालमपि, यद्येवं कर्म| भुज्यते । प्रसज्यते तदा नूनं, कृतनाशाकृतागमौ ॥४१॥ यत्प्रागनल्पस्थितिकं, बद्धं भुक्तं न कर्म तत् । यच्चाल्पस्थितिकं भुक्तं, तबद्धं तेन नात्मना ॥४२॥ अनोच्यते-नोपक्रमण क्रियते, दीघस्थितिककर्मणः ।। नाशः किंवध्यवसायविशेषाद्भज्यते द्रुतम् ॥४३॥ यथा भूयःकालभोग्यान् , प्रभूतान् धान्यमूढकान् । | रुग्णा भस्मकवातेन, नचिरादेव भुञ्जते ॥४४॥ न चात्र वर्तमानानां, धान्यानां विगमो भवेत् । तद्भोगः स्याकिंतु तूर्ण, न्यायोऽयं कर्मणामपि ॥ ४५ ॥ चिरेण दह्यते रज्जुर्वहिना वितता यथा । सैव संक्षिप्य निक्षिप्ता, क्षिप्रं भवति भस्मसात् ॥४६॥ चिरेण पच्यते वृक्षस्थितमानादिकं फलम् । गर्ताक्षेपपलालादियुक्त्या तु क्षिप्रमप्यहो ॥४७॥ विपाकः कर्मणोऽप्येवं, द्विधा प्रोक्तो जिनागमे । यथास्थित्योपक्रमाद्वा, बद्धं कर्म हि भुज्यते ॥४८॥ नन्वेवं कर्म यबद्धं, तत्सर्व वेद्यमेव चेत् । उपक्रमेणाल्पकालाद्यथास्थित्यथवा
चिरात् ॥४९॥ तदा प्रसन्नचन्द्रादेर्भोगो बद्धस्य कर्मणः । सप्तमावनियोग्यस्य, प्राप्तो दुःखविपाकिनः An ५० ॥ न चास्य श्रूयते दुःखविपाकः सप्तमक्षितेः । अचिरादेव कैवल्यं, प्राप्तस्य शुभभावतः
१०
Jain Educatio
n
al
For Private Personel Use Only
Har
jainelibrary.org