SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ छो. प्र. ७५ Jain Educati वनम् ॥ ४३ ॥ आत्मवर्त्तित्वादलक्ष्यमप्येभिर्लक्षणैरदः । लक्ष्यते इत्यमून्याहुर्लक्षणान्यस्य धीधनाः ॥ ४४ ॥ १ ॥ हिंसामृषाद्यतिक्रूराध्यवसायात्मकं भवेत् । परप्रद्वेषजं रौद्रध्यानं तच चतुर्विधम् ॥ ४५ ॥ हिंसा १ मृषा २स्तैन्य ३ संरक्षणा ४ नुबन्धिभेदतः । तत्रायं प्राणिनां दाहवधबन्धादिचिन्तनम् ॥ ४६ ॥ पैशुन्यासभ्यवितथवचसां परिचिन्तनम् । अन्येषां द्रोहबुद्ध्या यन्मृषावादानुबन्धि तत् ॥ ४७ ॥ तथाहुः - “पिसुणासन्भासन्भूअ - भूयधायाश्वयणपणिहाणं । मायाविणोऽभिसंघणपरस्स पच्छन्नपावस्स ॥ ४८ ॥” परद्रव्यापहरणचिन्तनं तीव्र - रोषतः । तन्नायकोपघाताद्यैर्भवेत् स्तैन्यानुबन्धि तत् ॥४९॥ स्वीयस्वरक्षणार्थं यच्छङ्कमानस्य सर्वतः । परोपघाताभिप्रायः, संरक्षणानुबन्धि तत् ॥ ५० ॥ तथोक्तं - " सद्दाइविसयसाहणघणसंरक्खणपरायणमणि । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ॥ ५१ ॥” हिंसादिषु चतुष्केषु यदेकासेवनं मुहुः । रौद्रध्यानस्य तद् ज्ञेयं, प्रथमं लक्षणं बुधैः ॥ ५२ ॥ चतुर्व्वेषु प्रवृत्तिस्तु, द्वितीयं तस्य लक्षणम् । तथा कुशास्त्र संस्कारात्मकादज्ञानदो - पतः ॥ ५३ ॥ हिंसादिकेष्वधर्मेषु, धर्मबुद्ध्या प्रवर्त्तनम् । तृतीयं लक्षणं ज्ञेयं, चतुर्थं तु भवेदिदम् ॥ ५४ ॥ मरणान्तेऽपि संप्राप्ते, हिंसादेरनिवर्त्तनम् । महासंक्लिष्टमनसः, कालशौक रिकादिवत् ||५५ ||२|| श्रुतचारित्रधर्माभ्यामनपेतं तु यद्भवेत् । तद्धर्म्य ध्यानमुक्तं तच्चतुर्भेदं जिनोत्तमैः ॥ ५६ ॥ आज्ञाविचयसंज्ञं स्यात् श्रुतार्थचि - |न्तनात्मकम् । अपायविचयं त्वाश्रवादिभ्योऽपायचिन्तनम् ॥ ५७ ॥ पुण्यपापफल चिन्ताविपाक विचयाभिधम् । संस्थानविचयं तु स्याल्लोकाकृत्यादिचिन्तनम् ॥ ५८ ॥ तथाहु: - " आप्तवचनं हि प्रवचनमाज्ञाविचयस्तदर्थनिर्ण ational For Private & Personal Use Only १० १४ v.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy