________________
व्यक्तं मूढ भवेन्मनः॥१५॥ एवं ध्यानं ध्रुवं चित्तं, चित्तं ध्यानं न निश्चयात् । खदिरो वृक्ष एव स्यात् , स चान्यो । वा तरुः पुनः॥१६॥ यन्मानसः परीणामः, केवलो ध्यानमिष्यते । तन्मिथ्या यजिनौधेष्वपि योगेषु तत्स्मृ. तम् ॥१७॥बन्वङ्गमनसोः स्थैर्यापादनात्संभवेद् द्विधा । ध्यानं कथं तृतीयं तु, वाचिकं संभवेदिह ? ॥१८॥ अत्रोच्यते-यथा मानसिकं ध्यानमेका निश्चलं मनायथा च कायिकं ध्यानं, स्थिरः कायो निरेजनः॥१९॥ तथा यतनया भाषां, भाषमाणस्य शोभनाम् । दुष्टां वर्जयतो ध्यानं, वाचिकं कथितं जिनैः॥२०॥ तथाहा"एवंविहा गिरा मे वत्तवा एरिसा न वत्तवा । इय वेयालिअवकस्स भासओ वाइगं झाणं ॥२१॥"मनोवचःकाययोगान्नयन्नेकाग्रतां मुनिः। वर्तते त्रिविधे ध्याने, गणयन् भड्शिकश्रुतम् ॥ २२॥ त्रैधेष्वपीति योगेष, ध्यानत्वे किल निश्चिते । मुख्येनैकतमेनैव, व्यपदेशः स्फुटो भवेत् ॥ २३ ॥ यथा सत्वपि दोषेषु, वातपित्तकफात्मसु । यदा भवेदुत्कटो यः, कुपितः स तदोच्यते ॥ २४॥ यथा गच्छन् राजमार्गे, नृपतिस्सपरिच्छदः। गच्छत्ययं नृप इति, मुख्यत्वाव्यपदिश्यते ॥२५॥ तथा चित्तस्य मुख्यत्वाद्ध्यानं चित्तोत्थमुच्यते । वाकाययो. स्त्वमुख्यत्वात्तद्ध्याने नोच्यते पृथक् ॥२६॥ ज्ञातविश्वस्वभावस्य, निस्सङ्गस्य महात्मनः । निर्ममस्य विरक्तस्य, भवेद्ध्याने स्थिरं मनः ॥२७॥ नित्यं यतीनां युवतीपशुक्लीबादिवर्जितम् । विजनं शस्यते स्थानं, ध्यानकाले विशेषतः॥२८॥ महात्मनां हि शमिनां, ध्याननिश्चलचेतसाम् । न विशेषो जनाकीणे, पुरे वा निर्जने वने
१ ठाणेणं मोणंणं झाणेणमित्यत्र वाक्कायव्यापारनिषेधाय पदद्वयं पृथगुक्त्वा केवलमनोव्यापाराय ध्यानशब्दस्य प्रयोगात् .
Jain Educa
t ional
For Private Personel Use Only
O
ww.jainelibrary.org