SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ६ वादिभिः। न माद्यतीति सोढः स्यात्सत्काराख्यः परीषहः॥८९॥अभ्यासेऽपि श्रुतानाप्ती, ज्ञानद्विष्टो विषण्णधीः ।। न स्यात्सोढव्य इत्येवमज्ञानाख्यः परीषहः ॥९०॥ तपश्चारित्रकष्टानां, सोढानामिह जन्मनि । फलासंदेहतः सह्यः, सम्यक्त्वाख्यः परीषहः॥९१ ॥ शीतोष्णप्रभृतीनां तु, वपुश्चेतस्तुदो खयम् । परीषहत्वं विज्ञेयं, स्पष्टत्वान्नेह वर्णितम् ॥ १२॥ स्त्रीप्रज्ञालोकसत्कारा, अनुकूला अमी त्रयः। प्रतिकूलाच विज्ञेयाः, शेषा एकोनविंशतिः॥९३ ॥ अत्रानुकूलशीतलयोर्विशेषोऽन्वेषणीय इति।परीषहौस्त्रीसत्कारी, द्वौ स्यातां भावशीतलौ। उष्णाश्च भावतः शेषा, विंशतिः स्युः परीषहाः॥९४ ॥ तथा:-"इत्थी सक्कारपरीसहो य दो भावसीअला| एए' (आचा.-२०२नि.) इत्यादि । इति परीषहाः। उपसृज्यत एभिर्यत्, धर्मात्मच्याव्यतेऽसुमान् । बाधाविशे-18 हषास्ते प्रोक्ता, उपसर्गा इति श्रुते ॥१५॥ दिव्य १मानुष २ तैरश्चाः ३, वसंवेद्या ४ स्तथैव च । एकैकश्च चतुर्भेद, इति ते षोडश स्मृताः ॥९६॥ हास्यात्पद्वेषतो वापि, तृतीयः स्यात्परीक्षणात् । तुर्यः पृथग्विमात्राख्यो, हास्यद्वेषादिसंकरात् ॥९७॥ स च हास्यात्समारब्धो, द्वेषो यत्तत्परीक्षणे। निष्ठां यायात् क्रुधारब्धोऽप्येवं हास्यपरी-1 १० क्षयोः॥९८॥ यद्वाऽऽरब्धः परीक्षाया, निष्ठां हास्यक्रुधोव्रजेत् । एतेषां त्रिकसंयोगोऽप्येवं भाव्यो मनीषिभिः ॥ ९९ ॥ मानुषा अप्येत एव, भवन्त्याद्यास्त्रयस्ततः। कुशीलप्रतिसेवाख्यस्तुर्यो भोगार्चनादिजः ॥ ४००॥ भयाद द्वेषाद्रक्ष्यहेतोरपत्यपालनाय च । इति तिर्यक्कृता ज्ञेया, उपसर्गाश्चतुर्विधाः ॥१॥ प्रद्वेषात्क्रुद्धसर्पाद्यास्तुदन्ति श्वादयो भयात् । आहारहेतोर्व्याघ्राद्या, धेन्वाद्यास्त्रातुमात्मजान् ॥ २ ॥ घटनाच प्रपतनात्, १४ Jain Educatio n For Private Personal Use Only D ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy