SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Jain Education शीतोष्णे ३४, दंशा ५ऽचेला ६ ऽरति ७ स्त्रियः ८ । चर्या ९ नैषेधिकी १० शय्या ११ ऽऽक्रोशश्च १२ वध १३याचने १४ ॥ ६२ ॥ रोगा १५ लाभ १६ तृणस्पर्शाः १७, सत्कारो १८ मलिनाङ्गता १९ । प्रज्ञा २०ऽज्ञानं २१ च सम्यक्त्वं २२, द्वाविंशतिः परीषहाः ॥ ६३ ॥ अरत्याख्यान्मोहनीयादरतिः स्यात्परीषहः । जुगुप्सा मोहनीयाच्चाचेलत्वं स्यात्रपावहम् ॥ ६४ ॥ पुंवेदमोहनीयाच्च, स्यात्पुंसां स्त्रीपरीषहः । स्त्रीवेदमोहनीयाच, स्त्रीणां स्यात्पुंपरीषहः ॥ ६५ ॥ भयमोहाद्भवेद्भीष्मो, नैषेधिक्याः परीषहः । याञ्चापरीषहो मानभङ्गकृन्मानमोहतः ॥ ६६ ॥ क्रोधहेतुः क्रोधमोहभूराक्रोशपरीषहः । मानहेतुर्मान मोहभूः सत्कारपरीषहः ॥ ६७ ॥ चारित्रमोहमाश्रित्य, स्युः सप्तामी परीषहाः । प्रज्ञाऽज्ञानद्वयं ज्ञानावरणीय समाश्रितम् ॥ ६८ ॥ सम्यक्त्वं दर्शन मोहमलाभो विघ्नकर्म च । आश्रित्य वेदनीयं तु भवन्त्येकादशापरे ॥ ६९ ॥ तत्राद्याः क्रमतः पञ्च, चर्या शय्या बधो रुजा । तृणस्पर्शश्च मालिन्यमित्येते वेदनीयजाः ॥ ७० ॥ एवं च ज्ञानावरणे, मोहनीयान्तराययोः । वेदनीये चेति कर्मचतुष्केऽन्तर्भवन्त्यमी ॥ ७१ ॥ स्युद्वाविंशतिरप्येते, सप्ताष्टकर्मबन्धिनाम्। युगपद्विशतिं चामून्, वेदयन्त्यपि जातु ते ॥ ७२ ॥ चर्यानैषेधिकीयुग्मं, युग्मं शीतोष्णयोरपि । न भवेद्युगपत्तेनानुभवो विंशतेः स्मृतः ॥ ७३ ॥ ननु चात्यन्तिके शीते, पतति ज्वलितेऽनले । मध्यस्थस्यैकतः शीतं, तुदत्येवोष्णमन्यतः ॥ ७४ ॥ अत्रोच्यते - शीतोष्णकालोत्थे शीतोष्णे एवात्र विवक्षिते । व्यभिचारो न तत्पूर्वोक्तैः शीतज्वरिभिस्तथा ॥ ७५ ॥ एवंविधो व्यतिकरो, न भवेद्वा तपखिनाम् । तस्माच्छीतोष्णयोर्नेककाले संभव For Private & Personal Use Only ५ १० १४ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy