________________
उत्तरोत्तरमुत्कृष्टवर्धमानशुभाशयः ॥ ४॥ तत्र सिंहासने पूर्वामुखः स्वामी निषीदति । प्रभोदक्षिणतश्चोपविशेत् कुलमहत्तरा ॥५॥ पटशाटकमेकं सा, बिभृते हंसलक्षणम् । अम्बधात्री वामतश्च, चारुवेषा निषीदति ॥६॥ पृष्ठेऽवतिष्ठते चैका, तरुणी चारुभूषणा । प्रभूपरि सितच्छत्रं, दधाना स्वर्वधूपमा ॥७॥ एका च कृतशङ्गारा, चकोराक्षी निषीदति । ऐशान्यांदधती हस्ते, कलशं जलसंभृतम् ॥८॥ एका निषीदत्याग्नेय्यां, रम्यालकारबन्धुरा । हस्ते धृत्वा मणिमयं, तालवृन्तं मृगेक्षणा॥९॥ततश्च वजनादिष्टाः,सहस्रं पुरुषर्षभाः। समोच्छायोत्साहरूपवेषभूषणशालिनः ॥१०॥ वहन्ति शिबिकां यावत्तावत्सौधर्मनायकः। तस्य बाहां दाक्षिणात्यामूर्ध्वगां वहति स्वयम् ॥११॥ उदीच्यामूर्ध्वगां बाहां, वहतीशाननायकः । अधस्तनां दाक्षिणात्यां, चमरेन्द्रः वयं वहेत् ॥१२॥ अधस्तनीमौत्तराहां, बलीन्द्रस्तामुदस्यति । चत्वार उद्वहन्त्येवमिन्द्रा बाहाचतुष्टयम् ॥१३॥ शेषाः सुराः सुरेन्द्राश्च, चलत्कुण्डलभूषणाः । प्रौढप्रेमप्रकटितपुलकाङ्कुरदन्तुराः॥१४॥ पञ्चवर्णानि पुष्पाणि, वर्षेन्तो देवदुन्दुभीन् । वादयन्तः स्वमात्मानं,धन्यम्मन्याः स्फुरन्मुदः॥१५॥ अहं पूर्वमहं पूर्वमिति सत्वरचेतसः।। शेषेष्वशेषदेशेषु, वहन्ति शिविकांप्रभोः॥१६॥ त्रिभिर्विशेषकं॥ तथाहः श्रीभद्रबाहुखामिन:-'पुवं उकुखित्ता माणुसेहिं साहटुरोमकूवेहिं । पच्छा वहंति सीअं असुरिंदसुरिंदनागिंदा ॥१७॥"ईदृग्नियमश्चात्र चतुर्थाङ्गे-"पुरतो | १२ ___१ पुरओ सुरा वहति असुरा पुण दाहिणंमि पासंमि । अवरे वहति गरुला नागा पुण उत्तरे पासे ॥ १॥ (८.१२४ ) इति वचनादनियमोऽयं. अयं वीरमहोत्सवे क्रमः, पूर्वोक्तस्तु नाभेयजिनदीक्षोत्सवे
Jain Educa
t ional
For Private 8 Personal Use Only
V
w.jainelibrary.org