________________
वत् श्रीमहावीराधिकारे तु षष्ठाङ्गवत् , तथा चोक्तं श्रीज्ञानसागरसूरिभिः स्वकृतावचूर्णों "आह-ऋषभाधिकारे संबोधनोत्तरकालं परित्यागद्वारमुक्तमिह तु कस्माद्विपर्ययः ?, उच्यते, न सर्वाहतामयं नियमः, यदुत संवोधनोत्तरकालभाविनी महादानप्रवृत्ति"रिति। ततो दीक्षादिनादर्वाग, वर्षे शेषेजिनेश्वराः।दानस्य धर्मध्वग्यत्वादानं ददति वार्षिकम् ॥७७॥ कोटिमेकां सुवर्णानां, लक्षैरष्टभिरन्विताम् । आप्रातराशसमयान्नित्यं ददति तीर्थपाः॥७८॥ पुरे त्रिकचतुष्कादौ, कारयेद् घोषणामिति । ईप्सितं यस्य यद्वस्त्रविभूषावाहनादिकम्॥७९॥ तद्यथेच्छमिहागत्य, स गृह्णात्वविशङ्कितः । सर्वाशाः पूरयत्येवं, दानैः कीर्त्याच तीर्थकृत्॥८॥युग्मम् । धर्मप्रभाव-8 नावुद्ध्या, लोकानां चानुकम्पया। जिना ददति तहानं, न तु कीादिकालिणः॥८१॥ दानं यथा यथा दद्युः, खापतेयं तथा तथा । शक्रवैश्रमणादिष्टा, देवाः पिप्रति जम्भकाः॥८२॥ त्रीणि कोटिशतान्यष्टाशीतिश्वोपरि कोटयः । लक्षाण्यशीतिः खर्णानां, दयुर्वर्षेण तीर्थपाः ॥ ८३ ॥ एतावद्वार्षिके दाने, जम्भकामरढौकितम् । जिनेश्वराणां सर्वेषां, नियतं परिकीर्तितम् ॥८४॥ तच्चैवं-दातुं यदाऽऽब्दिकं दानमध्यवस्यन्ति तीर्थपाः। तदाऽऽसनप्रकम्पेन,जानात्यवधिना हरिः॥८॥जीतमेवेदमस्माकं, त्रिकालोद्भववज्रिणाम् । यद्वार्षिकाय दानाय, प्रत्रज्यावसरेऽहताम् ॥८६॥ढौकनीयं वापतेयं, स्वर्णकोटीशतात्रयः। अष्टाशीतिः कोटयश्चाशीतिलक्षसमन्विताः [॥८७॥ युग्मम् । एवं निश्चित्य धनमाज्ञापयति बज्रभृत् । स जम्भकामरांस्ते खं, निक्षिपन्ति गृहेऽहताम् ॥८८॥
अन्यदप्यश्वहस्त्यादिभूषावस्त्रादि मन्दिरात् । यच्छन्त्यभीष्टं लोकानां, दानवीरा जिनेश्वराः॥८९॥ महानसादो.प्र./18
For Private & Personal Use Only
N
jainelibrary.org