________________
चितैः । पुष्पस्रकशोभितगलैः, पद्मोत्पलपिधानकैः ॥ २० ॥ सर्वाग्रेण चतुःषष्ट्याधिकैः किल सहस्रकैः । अष्टशभिर्भवपाथोधिपाराय स्वीकृतैरिव ॥ २१॥ सामानिकादिनिःशेषपरिवारसमन्वितः । प्रागुक्तोदकपुष्पाद्यैरहSन्तमभिषिञ्चति ॥ २२॥ त्रिभिर्विशेषकं ॥ अच्युतेन्द्राभिषेकेऽस्मिन्नीशानेन्द्रादयः परे । ऊर्द्धदमा निषेवन्ते,
विविधायुधपाणयः॥ २३ ॥ चामरांश्चालयन्त्येके, केचिच्छन्त्राणि बिभ्रति । केचिद्धपानुत्क्षिपन्ति, परे नृत्यानि कुर्वते ॥ २४ ॥ वादयन्त्यथ वाद्यानि, केचिद्गायन्ति केचन । केचिद्गर्जन्ति वर्षन्ति, केचित्तन्वन्ति विद्युतः ॥ २५ ॥ पुष्पाभरणवस्त्राणां, वृष्टिं कुर्वन्ति केचन । बालविस्मयदाश्चेष्टाः, केचित्कुयुः प्रभोः पुरः ॥ २६॥ अभिषिच्यैवमर्हन्तं, नत्वा कृतजयध्वनिः । गन्धकाषायिकेणाझं, रूक्षयत्यच्युतेश्वरः ॥२७॥ ततोऽलङ्कारसंभारभासुरं खर्दुमोपमम् । प्रभुं विधाय पुरतो, दर्शयेन्नृत्यकौशलम् ॥ २८ ॥ आलिख्य मङ्गलान्यष्टौ, ढौकये. त्पुरतः प्रभोः। वितत्य पुष्पप्रकरमुत्क्षिपेद्धपमुत्तमम् ॥ २९॥ ततो वृत्तशतेनाष्टाधिकेनार्थगुणस्पृशा । स्तुत्वा कृताञ्जलिबूते, भूयः स्तुतिपदावलीम् ॥ ३० ॥ सा चैवं जम्बूद्वीपप्रज्ञप्तिसूत्रे-"णमोऽत्थु ते सिद्ध बुद्ध णीरय
समण समाहिअ समत्त समजोगि सल्लगत्तण णिब्भय णीरागदोस णिस्सम णिस्संग णीसल्ल माणमूरण गुणकारयण सीलसागरमणंतमप्पमेय भवियधम्मवरचाउरंतचक्कवट्टी णमोऽत्थु ते” इत्यादि । एवं समापिताशेषजन्म
लात्रविधिः प्रभो। नातिदरान्तिकस्थोऽसौ. विनयेन निषबेते ॥३१॥ त्रिषष्टिरपि देवेन्द्रा, सौधर्मेन्द्रविवर्जिताः । अभिषिश्चिन्त्यनेनैकविधिनाऽनुक्रमेण च ॥ ३२॥ ततश्चेशानदेवेन्द्रः, पश्च मूर्तीर्विकुर्वति । जिनं
erseseeeeeeeeeeeeeesesement
१०
Jain Education
a
l
For Private & Personel Use Only
A
mainelibrary.org