________________
लोकप्रकाशे काललोके ३० सर्गे
॥४३२॥
च्यानां च सर्वेषां, मञ्जुघोषाभिधा भवेत् ॥ ५॥ सहस्रयोजनव्यासायामं यानविमानकम् । तेषां शतं सपादं जिनजन्मच, योजनान्युच्छ्रितो ध्वजः ॥ ६ ॥ ज्योतिष्केषु च चन्द्राणां, घण्टा स्यात्सुखराभिधा । तथा सुखरनि?षा, THE भाखतां शेषमुक्तवत् ॥७॥ घण्टावादनमेतेषां, प्राग्वदुद्घोषणादि च । प्रासानुशिष्टयस्तुष्टा, विदधत्याभियोगिकाः ॥ ८॥ वज्रपाणिः परिवृतो, देवरेवं चतुर्विधैः । मन्दराचलमौलिस्थे, कानने पाण्डकाये ॥९॥ अभिषेकशिलायां च, तस्मिन् सिंहासनोत्तमे । निधायान्तमुत्सङ्गे, तुष्टचित्तो निषीदति ॥ १० ॥ ततश्चा-16) च्युतदेवेन्द्रो, वदति खाभियोगिकान् । अर्हज्जन्माभिषेकाहीं, सामग्री सज्जयन्तु भोः ॥ ११ ॥ सौवर्णान : राजतान् रानान् , स्वर्णरत्नमयानपि । रूप्यरत्नमयान् रूप्यरैजान रैरूप्यरत्नजान् ॥१२॥ मृत्लामयांश्च प्रत्येकं, सहस्रमष्टकाधिकम् । एवं चङ्गेात्मदर्शस्थालपात्रीकरण्डकान् ॥ १३ ॥ सिंहासनच्छत्रतालवृन्ततैलसमुद्गकान् । चामरादीन् विकुर्वन्ति, तेऽष्टाधिकसहस्रकान् ॥ १४ ॥ त्रिभिर्विशेषकं ॥ कृत्रिमाकत्रिमान् कुम्भादीनादायाभियोगिकाः । क्षीरोदादिपयोधीनां, गङ्गादिसरितामपि ॥ १५ ॥ तीर्थानां मागधादीनां हृदानामपि भूयसाम् । पवित्रमुदकं मृत्लां, विविधान्यम्बुजानि च ॥ १६ ॥ तथा हिमवदादिभ्यो, गिरिभ्यः सकलर्नु-श: जान् । नन्दनादिवनेभ्यश्च, पुष्पौघान् विविधान् शुभान् ॥ १७॥ गोशीर्षचन्दनागुर्वादिकान् गन्धाननेकशः।
॥४३२॥ कषायांश्चामलकादीन् , सिद्धार्थान् विविधौषधीः ॥ १८ ॥ गृहीत्वाऽऽगत्य संभूय, ढोकयन्त्यखिलं च तत् ।। खस्वामिनेऽच्युतेन्द्राय, विनयेन प्रणम्य ते ॥ १९॥ पञ्चभिः कुलकम् । ततोऽच्युतसुरेन्द्रस्तैः, कलशैश्चन्दना- २८
Jain Educat
i onal
For Private Personel Use Only
jainelibrary.org