________________
घण्टादिनाम्नां सोऽध निरूप्यते ॥ ९० ॥ तृतीये पञ्चमे खर्गे, सप्तमे दशमेऽपि च । घण्टा सुघोषाऽथ हरिनैग-1 मेषी पदातिराट् ॥ ९१ ॥ निर्याणमार्गश्चोदीच्यो, गिरी रतिकरोऽपि च । भवेद्विमानसंक्षेपस्थानं सौधर्मराजवत् ॥१२॥तुर्ये षष्ठेऽष्टमेऽथ द्वादशे स्वर्गे बिडोजसाम् । घण्टापत्तीशनामादि, पूर्वोक्तं शूलपाणिवत् ॥ ९३ ॥ पालकः १ पुष्पकः २ सौमनसः ३ श्रीवत्ससंज्ञकः ४ । नन्द्यावतः ५ कामगम ६ स्तथा प्रीतिगमोऽपि ७च ॥९४ ॥ मनोरमश्च ८ विमलः ९, सर्वतोभद्र १० इत्यमी । क्रमाद्दशानामिन्द्राणां, प्रोक्ता यानविमानकाः ॥९५॥ तत्तन्नाम्ना तदध्यक्षाः, प्रोक्ता देवा अपि श्रुते । सामानिकादयस्त्वेषां, विज्ञेयाः क्षेत्रलोकतः॥९६॥ भवत्योघखरा घण्टा, द्रुमः पादात्यनायकः। विमानं चमरेन्द्रस्य, पालका प्रमाणयुक्॥९७॥ योजनानां शतान् पश्चोत्तुङ्ग इन्द्रध्वजोऽस्य च । शेषमुक्तखरूपं तु, शक्रवत्परिभाव्यताम् ॥९८॥ बलीन्द्रस्यापि विज्ञेयं, सर्व चमरवत्परम् ॥ घण्टा महौघखरा स्यात्, पादात्येशो महाद्रुमः॥ ९९॥ न स्युर्यानविमानोपकल्पिनोऽधिकृताः सुराः। भवनव्यन्तरज्योतिष्काणां किन्त्वाभियोगिकाः॥ २०॥ शेषाणां दाक्षिणात्यानां, भद्रसेनः पदातिराट् । उदीच्यानां च विज्ञेयः, पत्तीशो दक्षसंज्ञकः॥१॥ विमानं चार्द्धमानं स्याचमरेन्द्रविमानतः । इन्द्रध्वजश्च सर्वेषां, तद्भुजार्द्धमितो मतः॥२॥ तथा मेघखरा १ हंसखरा २ क्रौञ्चस्वराऽपि ३ च ।। मञ्जखरा ४ मञ्जघोषा ५, सुखरा ६ मधुरखरा ७॥३॥ नन्दिखरा ८ नन्दिघोषा ९, घण्टासंज्ञाः क्रमादिमाः। नागादिषु निकायेषु, देवेन्द्राणां निरूपिताः॥४॥ याम्यानां व्यन्तरेन्द्राणां, घण्टा मञ्जुखराभिधा । उदी
Jain Education S
cional
For Private Personel Use Only
Modjainelibrary.org