SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ सदा प्रवृत्तोऽद्वाकालोऽर्कादिगतिस्फुटः । गोदोहान्नपाचनाद्यामन्यां नापेक्षते क्रियाम् ॥७॥ अद्धाकालस्यैव भेदाः, समयावलिकादयः । अथो यथायुष्ककालखरूपं किश्चिदुच्यते ॥ ८॥ यश्चाद्धाकाल एवासुमतामायुविशेषितः। वर्तनादिमयः ख्यातः, स यथाऽऽयुष्कसंज्ञया ॥९॥ अयं भाव:-यद्येन तिर्यग्मनुजादिकजीवितमर्जितम् । तस्यानुभवकालो यः, स यथायुष्क उच्यते ॥१०॥ येनोपक्रम्यते दूरस्थं वस्त्वानीयतेऽन्तिकम् । तैस्तैः क्रियाविशेषैः स, उपक्रम इति स्मृतः॥११॥ उपक्रमणमभ्यर्णानयनं वा दवीयसः । उपक्रमस्तत्कालोऽपि, खुपचारादुपक्रमः ॥१२॥ सामाचारी यथायुष्कभेदाचोपक्रमो द्विधा । सामाचारी तत्र साधुजनाचीर्णा शुभक्रिया ॥ १३ ॥ तस्या आनयनं प्रौढशास्त्रादुद्धृत्य यत्कचित् । आसन्नतायै लघुनि, शास्त्रे स स्यादुपक्रमः ॥ १४ ॥ अयं भावः-ज्ञानस्यास्याः प्रौढशास्त्राध्ययनाचिरभाविनः । अल्पग्रन्थादाशुकारी, स्यात्सामाचायुपक्रमः॥१५॥ ओघः पदविभागश्च, दशधा चेति स त्रिधा । सामाचारीत्रिधात्वेनोपक्रमोऽप्युदितो बुधैः ॥१६॥ तत्र च-ओघात् सामान्यतः साधुसामाचार्या यदीरणम् । ओघसामाचार्यसौ स्यादोघनियुक्तिरूपिका 2॥१७॥ भवेत्पदविभागाख्या, सामाचारी महात्मनाम् । छेदग्रन्थसुत्ररूपा, दशधेच्छादिका वियम् ॥१८॥ इच्छा मिच्छा तहक्कारो आवस्सिया य निसीहिया । आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा ॥१९॥ उवसंपया य काले सामायारी भवे दसहा । इच्छया कुर्विदमिति, रानिकाद्या दिशन्ति यत् । इच्छाकारण) तत्कुर्यादितीच्छाकार उच्यते ॥ २०॥ अनाभोगाजिनाद्याज्ञाविरुद्ध कथिते कृते। मिथ्याकारं यदाहुाः, स १० १४ Join Educa t ional For Private Personal Use Only o ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy