________________
लोकप्रकाशे काललोके
३० सर्गे
॥४२९॥
Jain Education In
सिंहासने स्थापयन्ति, सप्रभुं प्रभुमातरम् ॥ १८ ॥ गन्धोदकैस्तथा पुष्पोदकैः शुद्धोदकैरपि । मज्जयित्वा प्रकु - सर्वन्ति, सर्वालङ्कारभूषिताम् ॥ १९ ॥ समानीय ततः प्राग्वदुदीच्यकदलीगृहे । अध्यासयन्ति तां सिंहासनेऽङ्कन्यस्तनन्दनाम् ॥ २० ॥ गोशीर्षचन्दनैधांस्यानाययन्त्याभियोगिकैः । शरकारणिमाथेनोत्पादयन्त्यनलं नवम् ॥ २१ ॥ संधुक्ष्योद्दीपयन्त्यग्निं, शकलैश्चान्दनैः कृशैः । चन्दनानि ततो हुत्वा, रक्षां कुर्वन्ति पावनाम् ॥ २२ ॥ प्रभोश्च प्रभुमातुश्च, रक्षापोहलिकां तया । बध्नन्ति ता दृष्टशाकिन्यादिदृग्दोषघातिनीम् ॥ २३ ॥ आस्फाल्य रत्नरचना चित्र वृत्ताश्मगोलको । भूयाः शैलायुरित्याशीर्गिरं संगिरते प्रभोः ॥ २४ ॥ प्रभुं करतले धृत्वा, | गृहीत्वाऽस्यां च बाहयोः । जन्मवेश्मनि शय्यायां नीत्वा गायन्ति भक्तितः ॥ २५ ॥ एवं च दिक्कुमारीभिः, कृते जन्मोत्सवे प्रभोः । सिहासनं सुरेन्द्रस्य, कम्पते युधि भीरुवत् ॥ २६ ॥ सोऽप्यर्हजन्म विज्ञाय, प्रयुक्ताविधिचक्षुषा । उत्थाय विनयं प्राग्वत् कुर्याच्छक्रस्तवावधि ॥ २७ ॥ ततः पूर्वामुखः शक्रः शक्रसिंहासने स्थितः । चतुरश्चिन्तयत्येवं, जातोऽयं जगदीश्वरः ॥ २८ ॥ तज्जीतमेतदस्माकं, त्रैकालिक मरुत्वताम् । कार्यो यदतां स्फीतो, जन्मकल्याणकोत्सवः ॥ २९ ॥ इति निश्चित्य पादात्यनायकं नैगमेषिणम् । आकार्य ज्ञाप - यत्येवं खः पतिर्विनयानतम् ॥ ३० ॥ खर्गेऽस्मिन् सर्वदेवानां घण्टावादनपूर्वकम् । प्रस्थानं ज्ञापयास्माकं, जिनजन्मोत्सवाय भोः ॥ ३१ ॥ शिरस्यारोप्य तामाज्ञां स सुधर्मसभागताम् । घण्टां सुघोषां त्रिधरो, वादयत्यन्विताभिधाम् ॥ ३२ ॥ एतस्यां वादितायां द्रागू, घण्टाः सर्वविमानगाः । युगपन्मुखरायन्ते, तादृग्दिव्या
For Private & Personal Use Only
जिनजन्मनि मह
२०
२५ ॥४२९॥
२८
Inelibrary.org