SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ लो. प्र. ७३ Jain Educat चित्रगुप्ता ७ वसुन्धरा ८ ॥ ३ ॥ याम्यदिगरुचका देता, एत्याष्टौ दिक्कुमारिकाः । गायन्ति पूर्णकलशकरा दक्षिणतः प्रभोः ॥ ४ ॥ इलादेवी १ सुरादेवी २, पृथ्वी ३ पद्मावतीति ४ च । एकनासा ५ नवमिका ६, भद्रा ७ शीतेति ८ नामतः ॥ ५ ॥ पाश्चात्यरुचकादेताः समेता दिक्कुमारिकाः । गायन्त्यात्ततालवृन्ता:, प्रभोः पश्चिमतः स्थिताः ॥ ६ ॥ अलम्बुसा १ मिश्रकेशी २, पुण्डरीका च ३ वारुणी ४ । हासा ५ सर्वप्रभा ६ श्री ७ ह्रीं ८ रित्यष्टौ दिक्कुमारिकाः ॥ ७ ॥ उदीच्यरुचकादेत्य, प्रभोरुत्तरतः स्थिताः । वीजयन्त्यश्चामराणि, मुद्रा गायंति तगुणान् ॥ ८ ॥ चित्रा १ च चित्रकनका २, शतेरा ३ च ततः परा । सौदामिनी ४ चतस्रोऽमूर्विदिगुरुचकमन्दिराः ॥ ९ ॥ दिक्कुमार्योऽभ्येत्य नत्वा, विदिक्षु चतसृष्वपि । सुष्ठु तिष्ठन्ति गायन्त्यो, दीपिकाव्यग्रपाणयः ॥ १० ॥ रूपा १ रूपासिका २ चापि, सुरूपा ३ रूपकावती ४ । एता मध्यमरुचकवासिन्यो दिक्कुमारिकाः ॥ ११ ॥ वर्द्धयित्वा प्रभोर्नाल, चतुरङ्गुलवर्जितम् । भूमौ निधाय सद्नैस्तत्खातं पूरयन्ति च ॥ १२ ॥ पीठं बुद्धा तदुपरि, दूर्वाङ्कुरान् वपन्ति च । अर्हदङ्गप्रतीकस्य, मा भूदाशातनेति ताः ॥ १३ ॥ दिकत्रये पश्चि माबर्जे, कुर्वन्ति कदलीगृहान्। तेष्वेकैकं चतुःशालं, वेश्म सिंहासनान्वितम् ॥ १४ ॥ ततो गृहीत्वा तास्तीकरं खकरसंपुटे । दत्तालम्बां जिनाम्यां च पुरस्कृत्येश्वरीमिव ॥ १५ ॥ स्वामिनीत इत इति, नीत्वा दक्षि दिग्गृहे । सिंहासने चोपवेश्य, मृदुविज्ञप्तिपूर्वकम् ॥ १६ ॥ शतपाकादिभिस्तैलैरभ्यञ्जन्ति सुगन्धिभिः । उद्व र्त्तयन्ति सुरभिद्रव्योद्वर्त्तनकैस्ततः ॥ १७ ॥ त्रिभिर्विशेषकं ॥ ततः प्राग्वत्समानीय, पौरस्त्यकदलीगृहे । national For Private & Personal Use Only १० १४ v.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy