SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ नुभावतः ॥ ३३ ॥ शब्दादैतमयः सर्वः, स्वर्गः स्यान्नाकिनोऽपि च । त्यक्तान्यकृत्याः शक्राज्ञां, शुश्रूषन्त्यखिला अपि ॥ ३४ ॥ ततः शान्ते ध्वनौ तासामयमुद्घोषयत्यदः । देवाः शृण्वन्तु शक्राज्ञामनामुत्रहितप्रदाम् ॥३५॥ जिनजन्मोत्सवायेन्द्रो, मर्त्यलोके प्रतिष्ठते । ततस्तत्र भवन्तोऽपि, सजीभवत सत्वरम् ॥ ३६॥ मोदन्ते च तदाकये, जिनभक्त्युत्सुकाः सुराः । इष्टं वैद्योपदिष्टं च, न स्यात्कस्य मनःप्रियम् ॥ ३७॥ ततो यानविमानाधिकारिणं पालकामरम् । सज्जीका विमानं दागाज्ञापयति वासवः॥ ३८ ॥ जम्बूद्वीपसमायामव्यासं पञ्चशतोच्छ्रितम् । पालकाख्यं विमानं स्राक्, सोऽपि निर्माय ढोकयेत् ॥ ३९ ॥ तत्रैकैकं त्रिसोपानं, प्रागुदग्याम्यदिकत्रये । रत्नस्तम्भशतो मध्ये, स्यात्प्रेक्षागृहमण्डपः ॥ ४० ॥ तस्मिन् रत्नपीठिकायां, मध्ये सिंहासनं हरेः । सन्मौक्तिकेन विजयदृष्येणालङ्कृतं भवेत् ॥ ४१॥ वायुश्रीदेशदिक्षु स्युस्तस्माद्भद्रासनानि च।। सामानिकानां चतुरशीतिः सहस्रका इह ॥ ४२ ॥ पूर्वस्यां मुख्यपत्नीनामष्टौ भद्रासनानि च । आग्नेय्यां | द्वादश सहस्राण्यभ्यन्तरपर्षेदाम् ॥ ४३ ॥ चतुर्दश सहस्राणि, याम्यां मध्यमपर्षदाम् । नैऋत्यां षोडश सह-IS स्राणि स्युबाह्यपर्षदाम् ॥ ४४ ॥ वारुण्यां सप्त सप्तानां, सैन्येशानां सुधाभुजाम् । द्वितीये च परिक्षेपे, आत्मरक्षकना किनाम् ॥ ४५ ॥ स्युः सहस्राणि चतुरशीतिः प्रत्याशमासनाः । सर्वे त्वेषां सषट्त्रिंशत्सहस्रं लक्षक-191 त्रयम् ॥ ४६॥ एषामात्मरक्षकाणामिति ॥ ततस्तुष्टमनाः शक्रो, रूपमुत्तरवैक्रियम् । अर्हत्सेवाहमुत्कृष्टं, कृत्वा सर्वाङ्गभूषितम् ॥ ४७ ॥ गन्धर्वनाट्यानीकाभ्यां, गीतसंगीतमोदितः । शच्यादिभिः प्रेयसीभिरष्टाभिः । Jain Educat i on For Private & Personal use only Wyjainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy