SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके ३० सर्गे ॥ ४२७ ॥ द्भवम् ॥ ६० ॥ आकार्य स्वशास्त्रज्ञान, प्रातरन्तःसभं ततः । नृपः स्वनफलं पृच्छेतेऽपि शास्त्रानुसारतः ॥ ६१ ॥ वदन्त्येवं महाराज !, सुतो भावी भवत्कुले । तीर्थंकरो वा चक्री वा, महास्वनानुभावतः ॥ ६२ ॥ स्वमशास्त्रे यतः प्रोक्ताः सर्वे स्वप्ना द्विसप्ततिः । तत्र त्रिंशन्महास्वमास्तेषु चैते चतुर्दश ॥ ६३ ॥ इत्याकर्ण्य प्रमुदिता, पुत्रजन्ममनोरथान् । दधाना विविधान् राज्ञी, सा कुर्याद्गर्भपोषणम् ॥ ६४ ॥ गर्भानुभावोत्पन्नानां, दोहदानां शुभात्मनाम् । सा सेवनात्प्रपूर्णेच्छा, सश्रीका शोभतेऽधिकम् ॥ ६५ ॥ अधानुकूले मरुति, प्रसर्पति सुखावहे । भूमौ निष्पन्नशस्यायां, फलपूर्णेषु च द्रुषु ॥ ६६ ॥ ग्रहेषु सर्वेषूचेषु, निमित्तेषु शुभेषु च । छत्रादिजन्मयोगेषु, शुभे लग्ननवांशके ॥ ६७ ॥ जने प्रमुदिते श्रेष्ठे, निमित्ते शकुनादिके । अर्द्धरात्रे प्रसूते जिनं निधिमिव क्षितिः ॥ ६८ ॥ उच्चग्रहास्त्वेवं – अर्काद्युच्चान्यजवृषमृगकन्या कर्क मीन वणिजोऽशैः । दिग्दहनाष्टाविंशतितिथीषुनक्षत्रविंशतिभिः ॥ ६९ ॥ छत्रादियोगास्त्वेवं द्वितीये द्वादशे मूर्ती, सप्तमे भवने ग्रहाः । छत्रयोगस्तदा ज्ञेयः, पुत्रो जातो नृपो भवेत् ॥ ७० ॥ धने व्यये रिपुस्थाने, मृत्युस्थाने यदा ग्रहः । योगः सिंहासनो नाम, देवानामपि दुर्लभः ॥ ७१ ॥ तृतीये पञ्चमे स्थाने, नवमेकादशे ग्रहाः । बलयोगस्तदाख्यातः, सर्वसौख्यकरस्सदा ॥ ७२ ॥ चन्द्रात्सप्तमगो जीवोऽथवा स्याच्चन्द्रसंयुतः । जीवयोगं तमित्याहुश्चिरायुः सुखवान् भवेत् ॥ ७३ ॥ केन्द्रस्थानेषु सर्वेषु, यदि सौम्यग्रहास्तदा । चतु:सागरयोगोऽयं देवानामपि दुर्लभः ॥ ७४ ॥" इत्यादि । तदा दिशः प्रसीदन्ति, सर्वाः प्रमुदिता सा, Jain Education anal For Private & Personal Use Only तीर्थकर जन्म १५ २० ॥ ४२७ ॥ २५ २६ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy