SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 15) पश्येत् किंचिदस्फुटान् । सा प्रभो ! प्रमदा सूते, नन्दनं चक्रवर्तिनम् ॥१॥ इयं पुनर्जया देवी, स्फुटानेतान लोकत । तन्नाथ ! त्रिजगन्नाथं, जिनं सा जनयिष्यति ॥२॥” इति श्रीवासुपूज्यचरित्रे, यस्याः पुत्रो भवेसार्वभौमोऽहंश्चेह जन्मनि। सा द्विः स्वप्नानिमान् पश्येत्तथोक्तं पूर्वसूरिभिः ॥५६॥ “अचिरा नाम तत्पत्नी, शीललीलासमुज्ज्वला । सा द्विश्चर्तुदश स्वप्नान्निशाशेष व्यलोकयत् ॥ ५७॥” इति वृद्धशत्रुञ्जयमाहात्म्ये॥ एषामन्यतरान् स्वमान् , लोकयेद्वासुदेवसूः । चतुरो बलदेवाम्बाऽथैकं माण्ड लिकप्रसूः॥५८॥ प्रतिकेशवमाता तु, त्रीन् खमानवलोकयेत्।मातैकं पश्यति स्वप्नं, मुनेरपि महात्मनः॥६९॥ तथा चोक्तं सप्ततिशतस्थानके"जिणचक्कीण य जणणी नियंति चउदस गयाइ वरसुविणे। सग चउ तिण्णि इगाई हरिबलपडिहरिमंडलियमाया ॥१॥” श्रीहीरप्रश्नोत्तरेऽप्युक्तं-"प्रतिवासुदेवे गर्भावतीर्णे तन्माता कियतः खमान् पश्यतीत्यत्र त्रीन् स्वप्नान् पश्यतीति ज्ञायतेसप्ततिशतस्थानकशान्तिचरित्राद्यनुसारेणे"ति। श्रीहेमरामचरित्रे तु रावणप्रतिवासुदेवे गर्भावतीर्णे तन्मात्रा कैकस्या एक एव खप्नो दृष्ट इत्युक्तमस्ति, तथा च तद्ग्रन्थ:-"अन्यदा कैकसी खप्ने, विशन्तं स्वमुखे निशि । कुम्भिकुम्भस्थलीभेदप्रसक्तं सिंहमैक्षत ॥१॥"मुनिमातुरेकखानिरीक्षणं च मेघकुमारादिमातृवत् ॥ सोपेत्य कान्तं विनयात्प्रयोध्यैतान्निवेदयेत् । सोऽपि खमफलं ब्रूते, विश्वोत्कृष्टाङ्गजो १ नियमाभावः एकस्य त्रयाणां वा स्वप्नानां दर्शने इति न विरोधः, अत एव पर्युषणाकल्पज्ञातादौ न प्रतिकेशवगर्भावतरणस्वप्नाधिकारः, SIमुनेर्गर्भावतारेऽपि एवमेव, न हि नियतं सर्वमुनिजननीनां तद्गर्भोद्भवे खप्नदर्शनं S Inin Educ w w.jainelibrary.org For Private Personal Use Only a tional
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy