SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ इत्यावश्यकहारिभयां, तृतीयकर्मग्रन्थे तु बन्धवामित्वनिरूपणे प्रथमनरकत्रयनारको वैमानिकदेवो गर्भजमनुष्यश्च सम्यक्त्वादिगुणस्थानवर्तिनस्तीर्थकृन्नामकर्म वनन्तीत्युक्तमिति ज्ञेयं, अत्र चैवमुत्पत्तिः बद्धतीर्थ-19 करनामा मनुष्यो मृत्वा नरकदेवगत्योरुत्पन्नस्तत्रापि तीर्थकरनामकर्म बध्नाति, जिननामकर्मणः सततबन्ध-18 कालस्योत्कृष्टतस्त्रयस्त्रिंशत्सागरोपममानस्यानुत्तरसुरानाश्रित्य शतके प्रोक्तत्वात् इति कार्मग्रन्थिकैर्गतित्रये जिननामबन्ध उक्तः, प्रथमतस्तु मनुष्य एव तद्वन्धमारभत इत्यावश्यके 'नियमा मणुअगईए' इति निरूपितमिति. यदा नरकस्वर्गत्योः सामान्येन जिननाम्नो बन्धः स्यात्, निकाचितबन्धस्तु तस्य मनुजगतावेवेत्यावश्यके 'नियमा मणुए' इत्याद्युक्तं भावीति संभाव्यते, एतत्संग्रहश्चैवमावश्यकषष्ठाङ्गादिषु-अरिहंत १ सिद्ध २पवयण ३ गुरु ४ थेर ५ बहुस्सुए ६ तवस्सीसु७। वच्छल्लया य तेसिं अभिक्खनाणोवओगे य८ ॥१॥ दसण ९विणए १० आवस्सए ११ य सीलबए १२ निरहयारो। खणलव १३ तव १४ चियाए १५ वेयावच्चे १६ समाहीय१७॥२॥ अप्पुवनाणगहणे १८ सुअभत्ती १९पवयणे पभावणया २० । एएहिं ठाणेहि तित्थ्यरत्तं लहइ |जीवो॥३॥” एतत्तपोविधिसंप्रदायश्चैवं-चेत्करोत्यूपवस्त्रेण, विंशतिस्थानकंतपः।तदाविंशत्योपवासैरेका पङ्किः समाप्यते॥२०॥ निरन्तरं कृत्यशक्ती, सान्तरांतांकरोति चेत्। पङ्गिरेका पूरणीया, तत्षण्मासान्तरे ध्रुवम् ॥२१॥ १ तइयभवोसक्कइत्ताणमिति वचनात् युक्तं निकाचनापेक्षं, तद्वन्धं नृगतावारभ्यान्यगत्योर्बजति इति यद्यपि युक्तमेव, तयोरपर्याप्तावस्थायामपि जिननामबन्धोदितेः, नैवं नरगताविति, परं न तदपेक्षा आवश्यके । 6 Jain Education in bal For Private Personel Use Only Animelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy