SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ॥ अथ त्रिंशत्तमः सर्गः प्रारभ्यते ॥ तत्र तीर्थङ्करास्तु स्युरितस्तृतीयजन्मनि।विंशत्या सेवितैःस्थानैस्तीर्थकृन्नामहेतुभिः॥१॥ तानि चैवं-अर्हत्१ सिद्ध २ प्रवचन ३ गुरवः ४ स्थविरा ५ स्तथा । बहुश्रुत ६ स्तपस्वी ७ च, वात्सल्यान्येषु सप्तसु ॥२॥ अहँश्चतुर्धा नामादिः १, सिद्धाः कर्ममलोज्झिताः २। श्रुतं प्रवचनं सङ्घस्तदाधारतयाऽथवा ३॥ ३॥ गुरुर्धर्मस्योपदेष्टा ४, स्थविरो वृद्ध उच्यते । वयश्चारित्रपर्यायश्रुतैरेष त्रिधा भवेत् ॥ ४॥ षष्टिं वर्षांण्यतिक्रान्तो, वयःस्थविर उच्यते । पर्यायस्थविरो जातविंशत्यब्व्रतस्थितिः॥५॥ सूत्रार्थज्ञश्चतुर्थाङ्गं, यावद्योऽसौ श्रुतेन च । स्थविरः स्याद्यदुत्सर्गापवादादीनि वेत्त्यसौ ५॥६॥ तत्कालापेक्षया भूरिश्रुतोऽत्र स्याहुश्रुतः। तपस्वी चानशनादिविचित्रोग्रतपःस्थितः ७॥७॥ भक्तिरागो यथाभूतगुणप्रख्यापनं जने । यथोचितोपचारश्च, तेषां वात्सल्यमीरितम् ॥ ८॥ सदा ज्ञानोपयोगश्च, भवति स्थानमष्टमम् ८ । सम्यक्त्वे ९विनये १० चावश्यके११ ऽतीचारवर्जनम् ॥९॥ एतानि नवमदशमैकादशानि स्थानानीति शेषः॥शीलव्रतेषु निरतीचारत्वं द्वादशं पदम् । व्रतान्यत्रोत्तरगुणाः, शीलं मूलगुणाः स्मृताः१२॥१०॥ त्रयोदशं क्षणलवाभिधानं स्थानमीरितम् । तच प्रतिक्षणलवं, सदा वैराग्यभावनम् १३ ॥ ११ ॥ तपश्चतुर्दशं स्थानं, नानाविधतपःक्रिया १४ । त्यागः पञ्चदशं साध्वाद्यन्निादिसमर्पणम् १५ ॥ १२ ॥ बालादिवैयावृत्यं स्यात्षोडशं स्थानकं च तत् । शुद्धोपध्यन्ना Jain Educati o nal For Private Personel Use Only omjainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy