SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ हारं दिशत्यसौ । अज्ञानतिमिरच्छेदी, सदसन्मार्गदर्शकः ॥ ४ ॥ क्रमाच मध्यमरसत्वेन कालस्य भूरुहाम् । मिथःसंघर्षणादग्निः, प्रादुर्भवति भूतले ॥५॥ तदा मन्दोदराग्नीनां, नैरस्याद्भूरिभोजिनाम् । रुजत्यजीर्णे | जठरमामौषध्यादिभोजने ॥ ६॥ तेषामनुग्रहायार्हन, मृदमत्राणि शिक्षयेत् । अन्नपाकजलाधानाधुचितानि यथायथम् ॥ ७॥ शिक्षितं प्रथमं येषां, शिल्पमेतद्युगादिना । तेषां वंशः कुम्भकार, इति नाम्ना प्रवर्तते । ॥८॥ एवं वक्ष्यमाणशिल्पकर्मणामनुसारतः । ते ते वंशाः प्रवत्तरंश्चित्रकृन्नापितादयः॥९॥ अधुनापि वदन्त्येवं, कुम्भकारादयो जनाः। वयमस्मिन्नियुक्ताः स्मो, जगदीशेन कर्मणि ॥१०॥ लोहशिल्पं विना वेटमवाहनास्त्राद्यसंभवः । ततः प्रभुर्लाहकारशिल्पं लोके प्रवर्तयेत् ॥ ११॥ विना चित्रं न शोभेत. वेठमशय्यासनादिकम् । ततः प्रभुश्चित्रकारशिल्पं लोके प्रदर्शयेत् ॥ १२॥ कल्पद्रुदत्तवस्त्राणामभावेन गताम्बराः। जनाः स्युःखिनस्तन्तुवायशिल्पं ततो दिशेत् ॥ १३ ॥ असंस्कृतश्मश्रुनखाः, स्युभीष्माकृतयो जनाः। ततो नापितशिल्पं तत्कृपया दर्शयेत्प्रभुः ॥१४॥ पश्चैवं मूलशिल्पानि, शंसति त्रिजगत्प्रभुः। एकैकस्य ततो भेदाः, १० प्रवर्त्तन्ते च विंशतिः ॥ १५॥ एवं प्रवर्तते शिल्पशतं गुरूपदेशजम् । कर्माणि तु प्रवर्त्तन्ते, कृष्यादीनि स्वयं| | ततः ॥ १६ ॥ एवं च-द्वासप्तति कलाः पुंसां, चतुष्षष्टिं च योषिताम् । तथा शिल्पशतं लोकहितायाईन् समादिशेत् ॥ १७ ॥ शस्त्रे शास्त्रे वणिज्यायां, जनानां भोजनादिषु । चातुर्य दर्शयत्येष, पितेव तनुजन्मनाम् ॥१८॥ ताहकालानुभावाच, क्रमेण वधिकाधिकम् । कलाशिल्पेषु लोकानां, चातुर्य परिवर्द्धते ॥ १९॥ ततो|| १४ Jain Educatio n al For Private & Personal Use Only ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy