SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Jain Educa दक्षेत्रमध्ये कालोऽङ्गीक्रियते श्रुतकोविदैः ॥ ७८ ॥ नृक्षेत्रात्परतोऽप्येष ऊर्ध्वाधोलोकयोरपि । वर्त्तनादिलिसत्त्वात्कुतो नाभ्युपगम्यते ? ॥ ७९ ॥ वर्त्तना किल भावानां वृत्तिः सा तत्र वर्त्तते । आयुःप्राणापानमानं, परापरस्थिती अपि ॥ ८० ॥ अत्रोच्यते - वर्त्तते तत्र भावानां वृत्तिः सा किं तु नेष्यते । काललिङ्गं तदीयाया, अपेक्षाया अभावतः ॥ ८१ ॥ उत्पद्यन्ते विलीयन्ते, तिष्ठन्ति स्वयमेव हि । सन्तः पदार्थास्तेषां | चास्तित्वं नान्यव्यपेक्षया ॥ ८२ ॥ प्राणादयोऽपि जायन्ते, तत्र नाद्वाव्यपेक्षया । सजातीयेषु सर्वेषु, युगपत्तदनुद्भवात् ॥ ८३ ॥ कालापेक्षाः पदार्था हि, युगपतुल्यजातिषु । संभवन्तीह माकन्दादिषु मञ्जरिकादिवत् ॥ ८४ ॥ भवन्ति युगपन्नैव, ताः प्राणादिप्रवृत्तयः । तत्रत्यानां तदेताः स्युः, कालापेक्षा न कर्हिचित् ॥ ८५ ॥ परापरत्वे ये तत्र, कालापेक्षे न ते अपि । स्थित्यपेक्षे किंतु षष्टिवर्षाद्वर्षशतः परः ॥ ८६ ॥ जातवर्षशता चापि षष्टिवर्षसुरोऽपरः । वत्सराणां शतं षष्टिरित्येषा च स्थितिः खलु ॥ ८७ ॥ स्थितिश्च सर्वभावानां, भवेत्सवव्यपेक्षया । सत्त्वं चास्तित्वमेव स्यात्तच नान्यमपेक्षते ॥ ८८ ॥ एवं च कालापेक्षाया, अभावादेव नोच्यते । तत्रत्यवर्त्तनादीनां काललिङ्गत्वमुत्तमैः ॥ ८९ ॥ अत्रेदं तत्त्वं प्रतिभासते - भूपसत्त्वाद्यथेह स्यात्सौस्थ्यादि तदपेक्षितम् । भूपाभावात्सदपि तत्तदपेक्षं न युग्मिषु ॥ ९० ॥ तथेह कालसत्त्वात्तत्सापेक्षं वर्त्तनादिकम् । कालाभावात्तदपेक्षं नरक्षेत्राद्वहिर्न तत् ॥ ९१ ॥ तद्वर्षादिऋतुद्रुमसुमादिनैयत्यकारणं कालः । तपनादिगतिव्यङ्ग्यः, समयादिर्ननु नृलोक एव स्यात् ॥ ९२ ॥ ( आर्यागतिः ) कालशब्दस्य निक्षेपा mational For Private & Personal Use Only १४ www.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy